________________ 184 जैनगीता / सूरौ वाचक सत्तपोऽसहशिशुबाते कुले सद्गणे, सधे साधुमनोज्ञयोरुरु सदाऽऽधीयेत वैयावृतिम् / यत्रत्यैः प्रतिपातवर्जिततर्नु स्वात्मश्रियः कामुकैः , आत्मा० // 10 // योषाणां निलये न वासमुचितां वार्ता करोतीह यः, सेवेतासनमिन्द्रियाणि दमयेत् कुड्यान्तरो न भवेत् / क्रीडां न स्मरतीद्धमुज्झति रसं शोभा न काये सृजेत, // 11 // यावज्जीवमविश्रमं दधदिह ज्ञानादिरत्नत्रयं, द्वौ भेदौ तपसः स्वषट्कसहितौ क्रोधादिवृन्दोज्झनम् / सप्तत्यान्यमिदं हि चारुचरणं यत्राप्यते सर्वत, आत्मा० / / 12 / / . आहारे वसतौ पतद्गहधृतौ वस्त्रे च शुद्धयर्थितामीर्याद्याः समितीश्च पश्च दशयुक् ते भावने द्वे कृतौ / भिक्षणां प्रतिमाः सदेन्द्रियजयं वस्त्राद्यवेक्षां गुपीः, आत्मा० // 13 // आबाल्यादपि दीक्षणं भवभिदे कर्मानलाम्बूपमं, यावद्दीक्षणकार्ययोग्यमसमं सामर्थ्यमिष्टं तनौ / वर्णानां न भिदा न चाश्रमक्रमोऽन्येष्टोऽत्रधर्मेशिवे, आत्मा० / / 14 / / नैबाऽत्र क्षितिकर्षणं पशुगणो नैवात्र पाल्यो मतो, व्यापारोऽपि समग्रपापनिलयस्त्याज्यो मतः सर्वथा / आरम्भात् सपरिग्रहाद्विरमणं त्रैधं त्रिधाऽत्रार्हते, आत्मा० // 15 // यावत्स्थाम शरीरजं मतिमुखान् शक्तो गुणानेधितुं, निःसङ्गोऽत्र भुवस्तले नवविधं कल्पं समाराधयन् / धर्मोद्योतपरोऽघसन्ततिभिदे कुर्याद्विहारं मुनिः , आत्मा० / / 16 / /