________________ . जैनगीता। 183 क्रोधालुब्धतया हसेनं भयतो नो यत्र वाक्यं मृषा, स्याद्वाच्यं निखिलाघहेतुतुलितं संसार उद्धामकम् / सर्वा पापपरिग्रहैकरुचिरा जायेत चेष्टा तत, आत्मा० // 3 // नादत्तं तृणमात्रमर्थमपि चादीयेत यत्राच्छतां, दन्तानां प्रविधातुमाप्तनिकरैरादेयधार्येऽखिले / आत्मार्थादृतनिष्ठितं मतमिह सेव्यं प्रदत्तं शिवं, आत्मा० // 4 // यावज्जीवमनारतं गुरुगुणं धार्य तु ब्रह्मान्वितं, सिद्धाभिर्नवभिः सदा सुवृतिभिर्यज्जीविताभं व्रते / सर्वासंयमसाधनं परिहरेत् स्त्रीसङ्गमत्रोषितः, आत्मा० // 5 / / सर्वस्मिन् जगतीतले विदधीतासङ्गत्वभावं त्यजनिःशेषार्थपरिग्रहं स्थित इह कर्माणुभीतो मुनिः / धर्मायापि धरेद्रजोहरणहर निःसङ्ग उक्तोपधि, आत्मा० // 6 // स्वाध्यायादिविघातकं धृतगुरुब्रह्माऽटनं शार्वरं, जन्धि चाशनपानखाद्यसहिते स्वाद्ये निशायां त्यजेत् / रक्षेदात्मनि यत्र सत्त्वविषयां स्फूर्जत्सुधीः सद्दयां, आत्मा० // 7 // क्रोध लोभमदान्वितं च निकृति जह्यात् स्थितः सगिरि, . शौचे संयमसंयुते सुतपसि ब्रह्मण्यसङ्गे रतः / पार्षद्यं दशधोदितं धृतवतो धर्मं तु यत्राश्रयेद्, आत्मा० // 8 // पृथ्व्यादिनितपञ्चकं त्रिकमपूर्णाक्षाश्रितं पूर्णखं, जीवानां गतचेतनाँश्च यतते प्रेक्षां समुत्प्रेक्षिकाम् / त्यागं चापहृति समीक्ष्य तनुवाचितैः सदाऽत्रोद्यमात्, आ० // 9 //