________________ जैनगीता। यत्राऽऽहारकृतिः समुज्झितपदा चक्षुर्युगेर्दूषणैयंत्रावास उदीरितो मुनिगणान् रक्षाक्षमो ब्रह्मणः / / वासो जीर्णमनूतनं न च परैरयं वसीतान्वहं, ' आत्मा० // 17 // पण्णां जीवनिकायगावच॑सुमतां ज्ञाता स्वरूपं वधं, त्रैधं त्रैधमुदारधीः परिहरेत्तेषां तदोपस्थितेः / स्याद्योग्योऽत्र मुनीश्वरोऽन्त्यजिनपे तीर्थे तथाऽऽरम्भते, आ० // 18 // पर्यायेण युतः समाहितवयाः स्यात् सूत्रलायी मुनिश्छेदानां तु यदा भवेत् परिणतो. योग्यः श्रुतानां मतः / / आचारस्य प्रकल्पने क्षम इह स्याद्धर्मदेशी मुनिः, आत्मा० // 19 // उत्सगैरपवादनैश्च विविधैर्युक्ते श्रुते सार्थके, योऽधीती स गीतार्थतामधिसरेद्योग्यो मुनीन्द्रे पदे / सङ्घोऽप्येनमधिश्रयेच्छतविधौ मोक्षकतानोऽत्र द्राक् , आ० // 20 // गार्हस्थ्येऽयमुवास वेषमसकृत्तत्साधुभावे त्यजेद् , ज्ञातेयाँश्च विचित्रसङ्गसहितान् द्रव्यस्य सर्वं ब्रजम् / निस्सङ्गः प्रतिबन्धवर्जितमना देशेषु यत्राटति, आत्मा० // 21 // यत्रस्थः प्रतिपादयेजनगणान् धर्म बिना निश्रिति, तुच्छानां प्रतिपूर्णवैभववतां हिंसादिपापोज्झनात् / दानाद्यैः सहितं सुदर्शनमतियुक् सव्रतं ख्यापयन् , आत्मा० // 22 // यत्राऽऽख्याति जनः सुधर्ममनिशं धर्ता प्रकल्प्यस्य यः , स्थास्नुः संयममार्ग आगमरुचिः सत्त्वोद्धृतौ सोद्यमः / स्याद्योग्योऽयमनुश्रयन्न तु परस्त्वाख्यायको नर्तकः , आत्मा० / / 23 / /