________________ 1 // 2 // // 3 // जैनीता। मुक्तेरिच्छा चेन्न स्वान्तेऽखिलं मृतमण्डन, विदिताऽस्यान्तः सत्सम्यक्त्वः सुजैन उदीरितः आगमवाचो यस्य श्रोत्रैः श्रुत्वा शिवकामना, स्यादुत्कृष्टा भवभयभीतिर्हृदीष्टपदाप्तये / / साधनमस्या गुरुकुलसेवाविधित्सया वर्तनं, विघ्नापेतं विज्ञोपचितं देवार्चनमादृतम् पक्व भावे भव्यत्वस्याऽसमे सुखदायिनि, भित्त्वा ग्रन्थि कश्चिल्लभते भवी शुभभावनः / यल्लब्ध्वा स्यात् परिमितभूतिर्नरः शिववर्त्मगः , पतितं न स्यात् सत्सम्यक्त्वं कदापि निरन्वयम् मत्तो विज्ञो मूखैः सहग् योगत्रिककार्यतोऽपगते विमदे विज्ञो विज्ञो न वै जडतान्वितः / भ्रष्टो दृष्टेः कालमनन्तं निगोदमुपाश्नुते, प्राप्ते भावे सत्सम्यक्त्वं ध्रुवं धरतीप्सितम् वर्मभ्रष्टः सद्भाग्यः स्याच्छुभेऽध्वनि विश्वसी, देशकवाण्या इतरस्त्वितरे न चाद्भुतमत्र हि / सम्यक्त्वी स्याज्जिनमार्गोक्तौ न परत्र कदापि हि, विश्रम्भोत्को नित्यं मिथ्यामतिः पुनरत्र न लब्ध्वाप्येतद्योगात् कुगुरोः श्रद्धाधनवञ्चितः, अज्ञानाद्वा हीनः स्याद्वाऽन्यथाऽनृतबोधताम् / . वेषं धर्म जैनाचीण चरन्नपि धिक्कृतो, हेयः सुधिया मार्गे विघ्नैः समो जिनधर्मिभिः // 4 // // 5 // // 6 //