________________ जैनगीता। स्वयं साधनं चेन्न शुद्धं दधाति, परो हिंसनादि प्रकुर्यात्तदर्थम् / स्वकीयेतरे नास्ति भेदो वधे(धं)त-दगार्यासनादिव्रती त्यक्तुमर्हः।।१३।। भवेद्यद् व्रतानां मुनीनां च यत्ना-द्धृतं वस्त्रपात्राद्यनुप्राहकं तत् / धरेन्नैव हिंसापरीहारहेतोः , पल्यऋमुख्यं मुनिराट् तु किश्चित् // 14 // वहेर्यथाऽगारवतां तु सेवा, सुखाप्तये तद्वदगारिनिभा / मत्वेति नैवावसनं गृहेषु, चरेद्यतिमोक्षसुखाप्तिहृत्सु // 15 // साधनं यदपि नाप्यते बहिः, पापकृन्मुनिपदैकचारिते / अन्तरं करोति पापसङ्गमं, साधनं त्यजेत्तनोविदन् वृषम् // 16 // विपाकतोऽघसन्ततेनिवर्त्ततेऽघसाधनात्, शरीरसंस्क्रियात एनसां पदं विनिश्चयात् / विदन्निति स्वकर्मभेदमर्मवेदनो मुनिरकर्म सन्दधाति सत्सु संयमाध्वयापनम् // 17 // एवंविधान् मुनिवरानझनाम्बुवस्त्रपात्रौषधादि विधिना प्रतिलम्भयन् सः / , देवार्चनादिनिरतः परमेष्ठिसक्तः, स्याज्जैन एव करुणानिधिराप्तमार्गः // 18 // इति पञ्चमोऽध्यायः / - / षष्ठोऽध्यायः / (दर्शनाधिकारः) - महिता देवा ध्याताः सिद्धा यतीश उपासिता, . विहिताः सेवा वाचकपदयोर्मुनीशपदोचिताः।