________________ 176 जैनगीता / आत्माऽनादिभवभ्रमिः स्वकृतभुक् चैतन्यपूणों भवेत् , सम्यग्दर्शनबोधवृत्तसुगुणैश्चेदुद्यमी मोक्षणे, दध्या // 14 // यः संसारवनाम्बुदावलिसमाद्बन्धात्स्वयं निर्गतो, लीनः संयमसाधनेऽघनिचयं क्षिप्त्वा वृतः केवलम् / श्रीसङ्घाय समादिशन् मुनिगृहिश्रेयः सदाऽत्रार्हते; दध्या० // 15|| संसाराम्बुधिमग्नचित्तचरितोऽर्थः प्राणिनाशाकितस्तं हित्वा गुरुयोग्यतामधिगंतः सोढोपसर्गान् क्षमी / मान्यो यत्र गुरुः सदा शिवपथे पान्थीयति निःस्पृहो, ध्या० // 16 // पूज्या यत्र जिनेशिनः शिवपथोदेशात्स्वरूपस्थितेः , सिद्धाः धर्मसमादरा गणिमुखाः सेव्याः सुपात्रस्थितेः / सद्ग्बोधचरित्रशुद्धतपसां सङ्घः सुधर्मास्पदे, दध्या० // 17 // आत्मा ज्ञानमुखामितैर्गुणगणैः सिद्धौ युतः स्फातिभाक , तत्तद्रूपविभावनावनमुखो धर्मः स्वरूपे निजे / तैलं स्यात्तिलसञ्चये न रजसि तन्नात्र धर्मोऽपरो, दध्या० // 18 // पापालेः परिवारकं मतमिहोत्कृष्टं तथा वर्तनं, दान्त्वाऽक्षादिगणं तपोऽनशनतो वैराग्यदं भावनम् / नारम्भो न परिग्रहो न विषया धर्माय देहश्रितां, दध्या० / / 19 / / लब्धेऽर्थे क्षयमाश्रितेऽघनिचये न्यायात् पथो लाभत- . स्तं पात्रावलिसङ्गतं हृदि सदा कर्तुं मनो धारणम् / श्रेयो यत्र न लोभसञ्चयकरे लाभे न जातूच्यते, दध्या० // 20 //