________________ जैनगीता। जन्माप्यं तनुवर्धनं सहकृतं लब्ध्वा समेऽमी भुवि, स्वाहारं च सनातनं प्रविदधत्यात्मीयजोतिश्रितम् / सत्यप्येवमनात्मतत्त्वविदुरा नोशन्ति पृथ्व्याद्यसून् , दध्या० // 7 // आत्मानन्त्यमुपेत्य मुक्तिपदवी शश्वन्मता नैव च, भव्यानामवसानिता न च जगत्पूर्ण मतं शूकरैः / यत्रास्तित्वमसुव्रजस्य सफले भोगः क्रियाया निजे, दध्या० // 8 // सर्वे प्राणभृतः स्वकर्मफलिनो नैवान्यदत्तं हृतं, भुञ्जन्ति प्रभुरीश्वरो न च फले धर्ता विनेता भवेत् / संसारोऽयमनादिको जनिमृतिव्रातो मतो यत्र तद्, दध्या० // 9 // चेत् कर्तारमुपैति विश्वजनकं दारिद्यदौर्गत्यरुक्शोकोत्पत्तिभवानि तानि जनतादुःखान्युपतीश्वरात् / तनिष्कारणवैरितामुपगतो यत्राश्रितो नेश्वरो, दध्या० // 10 // सर्वेषां जगतीतले दिनकरो हित्वोपकारेतरी, निन्दास्तोत्रममानयन् जनबजे भास्य प्रभास्ते सदा / तद्वद्यत्र मतो जिनेन्द्र उदितादेयेतरार्थोदिति-दध्या० // 11 // दुःखाकरिष्यति भवोदधिमज्जनेनेष्टो नार्चितो न जगतां प्रभुरेष लोकान् / भीत्येति नैव महनीयपदे मतोऽर्हन्, . दध्या० // 12 // स्वर्गापवर्गपदवीं विनयामि तस्य, स्याद्यो न मे चरणपङ्कजषट्पदाभः / चेत्स्यात्तथा प्रवितरामि मुदेति नाऽत्र, दध्या० // 13 //