________________ 174 174 जैनगीता। / पञ्चत्रिंशोऽध्यायः / (सम्यक्त्वाधिकारः) जैनोऽसौ मनुते सदा जिनपतेराज्ञां सुखानां खनिमाज्ञाप्यन्त उदारकर्मनिधनाः स्वर्गाय मोक्षाय च / ज्ञात्वाऽनादिभवाटनं भवभृतां तच्छेदनाय स्वयं, दध्याच्छुद्धतरं चरित्ररमणं दिष्टं जिनेन्द्रः परम् // 1 // उद्युक्तोऽत्र न चेदतीतदुरितो नाप्नोत्यभव्यः शिवं, तत्पूर्वं भवधारिणाघविलये सम्यक्त्वमादीयते / तत्र स्तो यतनावतां प्रशमिना निवेदसंवेगको, दध्या० // 2 // मोक्षः सर्वमतेश्वरैरनुमतस्त्यागेन सर्वास्तिकैः , कर्मांशापगमाजिने वरमते चारित्रयुक्तेरसौ / यन्नारुद्ध उदित्वरेऽघ उपयात्यन्तं पुरा सन्धितं, दध्या० // 3 / / पापेभ्यो भयमादधन्त उदिताः सर्वे जगत्यास्तिकाः, पापानां नहि कारणानि मनसा स्वैः स्वै रूपैर्जानते / अज्ञानाश्च दयामुखाः प्रतिपदं प्राणिव्रजान् नन्त्यमी, दध्या० // 4 // पापं हेयतमं नृभिः प्रतिदिनं स्वीये सदस्यबजे, व्याख्यान्तो न च तीथिकाः परिहतौ तेषां समर्था यतः / जानन्ति न हि ते स्वरूपमथ चाङ्गं साधनाद्यं तथा, दध्या ||5|| जीवानेव वदन्ति नो परमतान्यास्थाय धाष्टयं परं, . पृथ्व्यादीन् प्रथितान् त्रसेतरविधान् पञ्च स्थिरान् (मौढ्यतः) / तन्वादि-प्रविधानदक्षमतिकान् कायान् जगौ षड्मितांन , दध्या० // 6 / /