________________ 173 जैनगीता। ज्ञानं देवगति सदोदयवतीं नीचां गतिं नारकी माश्रित्यैव जनुर्मतां श्रुतधरैः ख्यातं त्ववध्यात्मकम् / व्यज्ञानान्तरनुश्रितो वरकृतिं सुस्थां च दुःस्थां धरेत् , स० // 33 // जीवानामुपकारिणीमथ परां कुर्यात् क्रियां सज्जनः, सज्ज्ञानत्रितयादथापि परतो जायेत पुण्यं तथा दुष्कृतम् / वेद्ये द्वे अपि सद्गतावितरथाऽऽवश्यकं तत्र ते, सज्ज्ञानं० // 34 // जीवानामपरापरासु गतिषु प्रोद्यच्छुभाशुभयोः , प्रोद्यद्दःखसुखं कृतादमितगं सह्यं तनुनाऽन्यया / तद्वा भावि विजानताऽसुधरणं तादृग्भवेच्चेद्विदा, सज्ज्ञानं० // 35 / / तुर्य ज्ञानमगारसङ्गमहितं हित्वा धरेत्साधुराड् , नैतत्केवलविद् द्विधा गृहवतो निर्ग्रन्थिते द्वे सरेत् / तुर्थं नो जनिसम्भवं गुणगणोद्धयेकसाध्यं मतं, सज्ज्ञानं० // 36 / / सर्वान् द्रव्यसुसङ्गतान् प्रतिकलं सम्बद्धभावान् समे, .. . क्षेत्रे कालयुतान् स्थिरास्थिरम्या वेत्त्यन्त्यबोधोत्तमः / नित्यो नास्य परावृतिः स्खलति च शुद्धात्मरूपः सदा, स० // 37 // जैनोऽसौ परमेष्ठिपञ्चकमनास्तूत्पूजनावैभवो, नित्यं स्तौति च तद्गतान् गुणगणान् ज्ञानादिकान् साधयन् / मण्याराधनतत्परो विरमते तेजस्तदीयं स्मरन् , तद्वत्पूज्यसुपूजको न विरमेज्ज्ञानादिसंराधनात् // 38 / / इति चतुस्त्रिंशोऽध्यायः /