________________ 172 जैनगीता। येऽर्थाः सन्ति चराचरे जगति ये तद्वाचका निःस्वना, नैवते पतिताः कुतोऽपि वियदाद्याद्वक्तृवक्त्रोद्गताः / ते सर्व वरदृष्टिवादमपतन् तत्तद्धरः सर्ववित्, सज्ज्ञानं० // 26 // दृष्टिश्चेन्न हि साम्यता हृदगता नैवार्थबोधोऽमलः, .. स्यादित्थं वरदृष्टिवादमननं सम्यग् दृशां सत्यभाक् / अक्षातीतपदार्थबोधनपटुः सम्यग्-दृगाढ्यो ध्रुवं, सज्ज्ञानं० // 27 // ज्ञानार्थे यदि ते मनो भवति चेदाराधनायोद्धरं, नित्यं तद्गणगाहिनां गुणवतां भक्त्यादि कार्यं कुरु / ध्यानं सत्पदजाप उन्नतिकरोऽभ्यासो नवीनश्रुतेः, सज्ज्ञानं० // 28 // ज्ञानं ज्ञानवतां महाव्रतजुषां भक्त्यादिभिः प्राप्यते, यन्नैषोऽस्ति गुणः परेभ्य उदितो यो दानदेये क्षमः, पाठाद्या अपि संगता न मतये चेद् नैत आप्ता नयं सज्ज्ञानं० // 29 // यस्यान्तः प्रकटाः समा नयमिदो वाचश्च नो विधृता स्त्यक्त्वा सद्विनयं सदा सविनया जीतेन यत्तद्वशाः। कायः स्वप्नदशागतोऽपि विनयं नोज्झेत्सुगीतात्मनः, सज्झानं० // 30 // नाप्तुं योग्यपदान्वितो नरपतिर्धिक्कारदूरीकृतो, देवानां न करोति साधनयुतां भक्तिं परां यौगिकीम् / चेत् तज्ज्ञानपदान्वितेषु गुरुषु त्रिधाश्रितो ज्ञानयुक्, स० / / 31 / / नास्त्यन्योऽपर एतदृद्धिसदृशः प्राप्तर्धिकः सद्गणो, यः सक्रामपदं भजेत् परजने मूलाद्भवेद्वाऽधिकः / चेत्तादृग् गुणसग्रहो न रुचिदो गन्ता कथं सोऽव्ययं, स० // 32 //