________________ जैनगीता // 2 // पञ्चमोऽध्यायः / (सावधिकारः) वन्देत साधुमणमुत्तमसत्त्ववन्तं, तातं प्रसूं सहजनि ललनां तनूजम् / राष्ट्र सुराज्यममितोत्सववृद्धिहेतुं ज्ञातेयमर्थनिचयं च जहौ स धीरः भ्रान्ति भवेषु जननान्तकभारभुग्नो, निःसत्त्वसारशरणामनिवार्यरूपाम् / ज्ञात्वा शरण्यमरुहत्कथितं सुधर्म, पापं समग्रमधर्म परिहत्य दधे सम्यक्त्वबोधचरणानि शिवैकहेतोः, सावद्ययोगविरमेण युतानि धृत्वा / सावद्ययोगविरतात् सुगुरोश्च याव ज्जीवं बभार नवधा शिवसाधनेच्छुः // 3 // अर्थोपार्जनमुज्झितं विरतितो, मूर्छापदात् सोऽस्तिमाँस्त्यक्तः पापपरायणैकमहितो रौद्रार्त्तचित्तोद्धरः / जायन्तेऽघचया, क्लिीनमयते धर्मस्य चेत्स्यात्कणः, सङ्गात्तत्प्रविबुद्धय शान्तमनसाऽसङ्गोऽभवज्ज्ञानवान् // 4 // .. सम्मूछिमाऽमितमनुष्यविनाशहेतुः, पञ्चाक्षगर्भजनरा नवलक्षमानाः / हन्यन्त उद्यतनरैमिथुनेऽत्र तस्मात् , तत्याज योषियनं सकलाघशान्त्यै // 5 // प्राणां धनं व्यवहृतौ नियतोद्यमानां, सोढुं न शक्यमपहारहृतं तु तद्धि /