________________ जैनगीता। राष्ट्रस्य भारमखिलं प्रजयाऽऽयतीक्षोऽमात्यो यथा वहति भूतिकरो नृपाणाम् / श्रीवाचकेन्द्रवितताखिलगच्छसारः,.. सच्छासनेन जयमेति मुनीशवर्यः // 11 / / रत्नानि राजकुललब्धमहांसि जातेः, .. शस्यानि ते यदि भवन्ति गुणान्वितानि / जीवादिसार्थवहनानि पदानि सन्ति, श्रीवाचकान्तिक उदारतराणि सूत्रः // 12 // सूत्रानुयोगकृतिषु प्रवराः पतन्ति, पादेषु विघ्नविजयाय कृतज्ञतायै / . बुद्धा जिनेश्वरमुनीश्वरसङ्गतेषु, वंशस्य वाचकततेरपि शुद्धि ( शास्त्र) सिद्धयै / / 13 / / अनुयोगधराः परमेष्ठिपदे, विधिसिद्धपदान् प्रणमन्ति मुदा, अनुयोग इहास्ति जिनेशततो, वरिवर्तति दक्षिणतो भरते / अनुयोग इह गुरुस्कन्दिलसन्मुनिपान्तिषदा समसूत्रगतः, नागार्जुनसूरिवरेण ततो नमति श्रद्धाबलिकः सुजनः // 14 // शुभवाचकवंशगता मुनिपा, विदिता जगति स्वाति (सूरि) प्रमुखाः, वरनन्दिकरोऽपि च नन्दिकरो, वरवाचकदेव इहैव मतः / / / आवश्यकमादिमतं मुनिपै-रुद्देशमुखत्रितये क्रमतो, नन्दिः पुनरध्ययनीयपदं, सकलेऽप्यनुयोगविधौ यमिनाम् / / 15 / / यथा मुनीशः सकलेऽपि शास्त्रे, बिभर्ति मुख्यत्वममानमाप्तितः / तथैव मुख्याः खलु वाचकेन्द्रा-स्ततो भवेज्जैनवरो नतस्तान् / / 16 / / इति चतुर्थोऽध्यायः /