________________ जैनगीता। दत्ता कुले यत्र स्वसा च पुत्री, धर्मोऽपि तत्रत्य उपासनीयः / ततः सदाचारभवोन्तराणां, रक्षार्थिनी तां न परत्र दद्यात् // 48 // अत्रत्यवैतत्य उपागते स्या-द्वयथैहिकी धर्महतेऽन्यभाविकी / आद्याऽल्पकालं परथा परा तु, वित्त्वेदमन्यश्रितये न दद्यात् // 49 // यथानुराग आत्मन प्रस्वान्ततोऽधिकोऽस्या निजपुत्रवर्गे / भिन्ने तु धर्मेऽधमस्य संश्रयो, नीचैस्तरा वृत्तिरबोधमोहिनी // 50 // सिद्धाद्रिप्रमुखप्रशान्तगिरिषु प्राप्ता पराः कोटयस्तत्स्वप्नेऽपि न याति सम्भवपदं येषां न श्रद्धाऽनघा / मोक्षं किन्त्विदमात्मवंशसहजा संस्कारवार्तामति र्येषां ते सुतरां विधाय सुमतिं तीर्थानि तानि स्मरेत् // 51 / / आद्या सिद्धा समग्रे भवभवविगमावाप्तमोक्षालये -या, साम्प्रत्यां जैनमार्गेऽवसृपितिसुषमदुष्षमायां जिनाम्बा / नैवाऽऽसीत्तत्र तीर्थं निजगुणमहिमोल्लासितात्मप्रभावान् , मत्वैवं स्वात्मशुद्धथै जिनपतिवचनाच्छ्राविकाणां प्रयत्नः // 52 // वर्गः श्राद्धयाः प्रणम्योऽविचलसुमतिधर्मकार्ये सदोक्तो, देवानामप्यचाल्यो बहुतरविधिभिः संयमादाप्ततत्त्वः / तत्रास्ति ज्ञातमग्यं चरमजिनपतेः नागभार्या प्रवेका, सम्यक्त्वे देवतुष्टौ जिनवरशिवगे शुद्धसत्याऽग्रदृष्टिः // 53 / / समग्रो नगर्या जनो भ्रान्तिमाप्तः, यदाऽसजिनेशस्यागमं कर्तुमिष्टः / स एवाम्बडः प्राप्तजनार्चनादि, न मुग्धा सुसम्यक्त्वधरा न याता // 54 //