________________ 150 जैनगीता। सर्वाङ्गिकी कोऽपि करोति भव्यः , समस्तसङ्के परमादरेण। . सर्वत्र कुर्वन् प्रथमं द्विधा स्त्रियां, विशेषहीनं सधवाधवायाम् // 39 // श्राद्धीनां स्याद्धर्मक्षेत्रेऽमलत्वं, कुर्याद्येनोद्वाहकालेऽपि पूजाम् / धार्यो महिमाऽनून एषोऽपि तादृक्, पापारम्भे साधयेद्धर्ममादौ // 40 // मतिय भवान्ते गतिः साऽपरत्रा, वाण्यत्र प्रेत्यास्ति समानलेश्या / च्यवे भवे चेति विबुध्य सर्वा-ना"न् सुनिर्मापयितुं यतेत // 41 // आराधनां निर्मलभावपूर्णा, चतुःशरण्या शुभपापकर्मणोः / प्रशंसया निन्दनया च भावात् , स्वान्यातुरत्वे हि करोति वर्याम् // 42 // यथा परैः प्रेत्य सुरालयानां, मुक्तेश्च गीतः परिदायकत्वात् / महेश्वरः सर्वजनोपकारी, मिथ्येयमाराधनकारिका तथा // 43 // यान्ति प्रशान्ताः प्रभुभक्तिवाणी-प्रणोदिताः स्वर्गपदं शिवं वा / तत्कारिका किं नहि कारिका हि दुग्धान्न किं म्रक्षणसर्पिराप्तिः॥४४॥ कुर्वन्ति वैवाहिकमत्र पुत्र-पौत्र्यादिकस्य निजबान्धवः / तथापि तच्चण्डक्षतिनिवृत्त्यै, नीतौ स्थिताः स्वर्गशिवाप्तियोग्याः // 45 // तथाविधोनीति पराभवेयुः, सत्कर्म कर्तुं शिवमार्गमेतुम् / अतः स्वकीय कुलवंशयुग्मं, पुरा हि रक्ष्यं सुधियेति गीतम् / / 4 / / यथाऽऽर्यदेशः सुजनोपकारकृत , सङ्गं विधायाहतसाधुचैत्यैः / वंशः कुलं वा मतिभाववत्यपि, विधाय तैः सङ्गमिहोपकारी // 47 //