________________ जैनगीता। 149 साधुव्रजानां न चतुर्थयामो-ऽपवादभूर्यत्करणं न तस्य / रागद्विषो चेत्स नरात्मनस्त-नचाङ्गनानां स गतापवादः // 30 // इत्यस्ति शास्त्रे मिथुने श्रमण्या, द्रव्ये, न भावे भवनस्य सम्भवः / हठप्रकारस्य यदस्ति तस्यां, सुसम्भवो नैव तथा सुपुंस्सु // 31 // अतः प्रयत्नात् स्वयमादरेण, वृद्धादियत्नेन सुरक्षितत्वम् / शीलं स्ववंशस्य वरं हि जीवितं, मत्वेति शीलं परिरक्षणीयम् // 32 / / अतः कवीशैः सुकलत्रनाशे, यथा समं घोषितमेति सत्यताम् / नाशो गृहस्येतरजन्मनाशे, घुष्टं तथा नो कविना जनेन // 33 / / यथा हि शस्यस्य धरानुसत्ति-स्तथा न कर्ध्वब्दसमीरणानाम् / अनुश्रितिस्तद्वदिहाङ्गानां, संस्कारवृत्तिः सकले स्ववंशे // 34 // शरीरतत्त्वं रुधिरानुसर्तृ-रक्तं च नार्यागतमेव मूलात् / मातृप्रसूते तनुतत्त्ववेत्ता, परीक्षते घस्रभिदां विवादे // 35 / / यस्मान्माता प्रसूते शिशुमनघपदं तेन सा गीतिमाप्ता, सत्पुत्रादीन् जगत्यां प्रचुरगुणगणे गार्गिमातेति काव्ये / / शास्त्रे रत्नप्रदीपप्रवितरणकरा रत्नकुक्षिनमस्याऽऽराध्या सा सर्वलोके त्रिभुवनपतिभिराविरम्बेति सोक्ता // 36 // ख्यातो जिनेन्द्राऽऽगम एष शब्दः , स्त्रियां च यद्वत्पुरुषेऽपि तद्वत् / जिनेन्द्रवाक्यादिषु सुष्ठु देवा-दनुप्रियेति प्रयुतो न भिन्नः // 37 // सोऽपि सम्बोधनमेतदेव, श्राद्धी तथा श्राद्धगणो मिथस्तु / हेशब्दपूर्वं हि पदं तदेव नार्या न तस्मात् क्वचिदप्यधस्त्वम् // 38 //