________________ 48 जैनगीता। पूर्वोपार्जितपापपङ्क्तिविलयेऽसाधारणं कारणं तप्तं दुष्करमुद्धतिकरतपो भावं च भव्या धरेत् / - // 23 // या श्रद्धाभरसंयुता, जनगणो यां संस्तुते शीलतः, वंशो द्वौ विशदीकृतौ सुकृतितः सज्जन्मवत्या यया / यस्यै धर्मपरः सदा नतिपरो, यस्या गुणानां व्रजः, सङ्घ सञ्चरते मतिश्च तरुणा जायेत यस्यां यशः // 24 // नारी यद्यपि निन्दिता श्रुतधरैर्वाक्यप्रबन्धोद्धरैः, स्थाने स्थान उपोढसन्मतिभरैः सा नैव जातिद्विषा / किन्त्वेतैः पुरुषप्रधानमतगं संश्रित्य वाक्यव्रतं, स्त्रीराश्रित्य निरूपणे पुरुषगा सैवाहता पौरुषे // 25 // स्याद्वादो जिनराड्मतेऽप्रतिहते दोषैर्गुणैः संश्रिते, सोऽनेकान्तनिरूपणेन सफलः सर्वामपेक्षां दधत् / नास्त्यत्राश्रयता स्त्रियामघततेः सम्पत्तु सम्पद्गते हीनो दोषगणेन ऋद्धिवरको नैवेति नो मन्यते // 26 // साधून् यथोद्दिश्य जिनेन्द्रमार्गे, दोषाः श्रमण्याः प्रतिपादिता बुधैः , त एव साध्वीत्रजसङ्ग्रहे स्युः , निर्ग्रन्थवर्यानपि संश्रिता हि // 27 // कामः स्त्रिया यगणितश्चतुर्भि-नरात्तदेतत्पृथगस्त्यपेक्षया / ज्योतिस्तृणानां झटिति प्रजायते, निर्वाति चेत्थं न च फुम्फुमेष (कारीषेषु ) // 28 // स्फुलिङ्गसंयोजनतस्तृणानि, ज्वलन्ति घट्टादियुताग्नितोऽपरः / शाम्येच्च तार्णो द्रुतमेव नान्य, इति प्रबोधात् स्मरंकारणं त्यजेत् / / 29||