________________ 152 जैनगीता। जम्बूस्वामिन आप्तसुन्दरवराः प्रेयस्य आप्तादरा, अष्टापि प्रवरां व्यधुः समगतां तत्कृत्यकृत्योद्यताः / यातेऽस्मिन् मुनितां स्वयं गतमदाश्चक्रुर्मुनित्वं परं, जाताः संयतमार्गसाधनपराः श्रीचन्दनायाः पुरः // 15 // श्रीवघ्रप्रसवितृसंयमकथां लोकात्ततश्चागतां,, श्रुत्वा श्रीधनगिर्युदारचरितां ववे सुनन्दा वरम् / जातं वज्रप्रभुं ददौ लघुतरं पण्मासमात्रं शिशु, तां को न स्तविता जिनागमरुचिः श्राद्धों परं पावनीम् / / 56 // श्रीहेमचन्द्रं प्रभुमार्पिपद् या, श्रीदेवचन्द्राय मुनीश्वराय / भर्तुः सुकृत्यं परमं विदन्ती, श्राद्धथा अहो वा स्वमतीत आदरः / / 57) श्री वस्तुपालाग्रजतेजपालं, प्राप्तं निधानं खनितुं विचित्तम् / दृश्यं जनैश्चौर्यकृतावनहँ धेयं तथेत्युक्तमलोभपल्या // 5 // श्राद्धी सुभद्रा जिनमार्गमोदा, जलेन द्वारत्रितयीं पुरस्य / सतीत्वभावस्य महाप्रभावं, जनेषु जनयन् पुनरुद्घटित्री // 59|| राज्ञा सुशीलो महिषीप्रदत्ता-भ्याख्यानयुक्तो हननाय युक्तः / सुदर्शनो रक्षित आर्यधृत्या, श्राद्धया स्वकीयाचलधर्मभावात् // 6 // श्रीरेवती नाम जिनस्य बद्ध्वा, भावी जिनो तीर्थपदानशक्तेः / निर्णीय को न स्तविता जिनानु-यायी वशं श्राद्धपथोन्मुखां स्त्रिम् / / 61 // शाही अकब्बरमुदारमतिं दयायां, लीनं न वेत्ति जिनशासनतत्त्ववेदी /