________________ . जैनगीता। 145 स्ववर्णगर्वेण यथा जनानां, म्लेच्छीकृताः कोटयधिका जनानाम् / द्विजैस्तथा दिग्वसनैः स्ववेद-गर्वेण योषाः प्लविताः शिवाप्तेः // 3 // न जैनमार्गे शिवसाधनायां, वर्णस्य वेदस्य विशेषवार्ता / श्रेण्या क्षपण्या क्षपयन्ति वेदां-खयोऽपि मोहक्षपणे क्रमेण // 4 // भावो हि जीवस्य शिवाप्तिमार्ग, स्यात्कुत्सितो रोद्धमलं, न चान्यत् / पञ्चेन्द्रियत्वप्रमुखं तु साधनं, स्यात्साधको भाव उदाररूपः // 5 // यथा मुनीनां प्रवहः शिवाय, प्रवर्त्तमानो गृहिवर्गयुक्तः / तथा श्रमण्योऽपि शिवाप्तिहेतो-रीक्ष्यन्त युक्ताः स्वकसेविकाभिः // 6 // श्राद्धयो गृहिण्यः सकलं तु कार्य, गृहाश्रितं नित्यमुपाचरन्ति / / जग्धौ च पाने च गृहाश्रितानां, जीवावनात्कर्तुममूर्यदीशाः // 7 // यत्स्वीचकारोद्वहनेन पत्यु-स्तदेव यावद्भवमाश्रयेद्गहम् / शय्यां न पत्युर्यदि नैव लोत् , परः सहस्राः शरदो दिवि स्यात् / / 8 / / विना तातं बालं भवति वनिता पालितु (रक्षितु) मलं, विधायान्येषां तु प्रवरधनिनां कण्डनमुखान् / विना योषां बालं भवति न हि रक्षणविधौ, कियत्कालं जीवेदपरवनितारक्षितभवः // 9 // अतः स्त्रीणां प्रोक्तं व्रतमतुलितं स्वेतरनरे, सदा धार्यं ब्रह्माऽपरपुरुषमीक्षेत न हशा /