________________ जैनगीता / स्त्रिया भूषा शीलं कुलमपकलङ्कं च भवति, सुशीला यत्रतास्तत उदितशीलाः स्त्रियः उमाः * ||10|| यदा शुद्धं, शीलं भवति वनिता पत्युरुदितं, प्रतीतेः पात्रं यद् धनकुलसुतादिप्रद इह / भवेत् स्वामी प्रेते भवति वनिता वंशवहनी, ततः पाल्यं शीलं चरितमुदितं प्राक्तनमुशेत् // 11 // भवाब्धिसन्तारणयानतुल्यं, 'दानं सुकृत्येषु परं सुकृत्यम् / अस्य विधानं महिला विदध्युः कथं न तासां भववार्धिपारः // 12 / / मध्याह्नकालः प्रवरो मुनीनां, भिक्षाभ्रमस्यागमसम्मतत्वात् / तदा च दानप्रसवो हि धर्मो, भवेद् गृहावृत्तितयाऽङ्गनानाम् // 13 // त्रिसन्ध्यं जिनार्चा विधातुं समर्था, महेला यतः कालसुसाधना सा / खरः सन्दधात्यर्धदग्धो निषेधं, महेलाऽस्ति योग्या श्रुतोक्त्या न मिथ्या // 14 // मुक्तेनिषेधं ललनागणस्य, दिग्वाससश्चक्रुरुदाररूपाम् / जिनेन्द्रपूजां न तु मुक्तिसाध्या, खरस्तु मूलप्रविणाशदक्षः // 15|| प्रभाते शय्यायां पठति परमां पञ्चपदनति, विमुञ्चन्ती निद्रां यदि च निजकं स्याच्छुचिवपुः / - स्मरन्ती तां चित्ते यदि च तनुकं स्यान्नहि शुचि, ततश्चित्ते कुर्यात् कुलममलिनं धर्मपरमम् // 16 / / चैत्यं ततो गेहगतं प्रविश्य, नैषेधिकीमुख्यविधि विधाय / कुर्याज्जिनेन्द्रार्चनमात्मलाभ - प्रद्योतनं पुष्पमुख्यैः सुद्रव्यैः / / 17||