________________ 144 जैनगीना। यथार्थं श्राद्धत्वं भवति भविनां शास्त्रगदितं, जिने ज्ञानाद्यस्तित इह विधेया बहुमतिः / / न विघ्नानां भावो गुरुगुणसपर्यां विदधतो, महादानं नित्यं भवति गदिता चिह्नततिरियम् // 8 // चर्यामसौ नित्यमुदारबुद्धया-ऽहोरात्रिकी श्राद्धगणोचितां धरेत् / न चेत्समेतो मुनिभावमन्त्ये, संलेखनामुत्तरसौख्यदामयेत् // 79 // जैनोऽसौ वरधर्मकर्मकरणेऽनन्योपकारक्षम, मत्वा श्राद्धवरं तनोति नियतं तस्य प्रभावप्रथाम् / सङ्घस्यापि चतुर्विधस्य नितरामाराधने स प्रभुः , कर्ता कारयिता प्रशंसनपरस्तुल्यास्त्रयोऽप्याहताः // 8 // इति एकोनत्रिंशोऽध्यायः / / त्रिंशोऽध्यायः / (श्राविकाधिकारः) जैनोऽसौ मनुते समस्तजिनपैर्मोक्षं वरेण्यं पदं, गन्तुं येऽसुभृतोऽर्हतां निजगतां सन्धारयन्तो मताः / तेषां यो भणितः सुकर्मकरणो वर्गः शुचिर्योषितां, तं नित्यं शिवधामसाधनपरं पूजास्पदं भक्तितः // 1 // अद्धाऽनघा शासनगा सदाऽस्याः , श्राद्धीतिशब्दो न पराप्तसङ्गात् / बाला युवत्योहिजराविजीर्णाः, श्राद्धयोस्तु वर्गो जिनपैः प्रशस्तः // 2 //