________________ जैनगीता। 143 जीवस्यास्ति विकम्पनं पर इति त्रासोद्यतांस्त्रायते, प्रकायाः परिरक्षणीयपदगा जैनः परो मन्यते // 72 / / शास्त्राणां विधिवाक्यराशिरधुनत्पापप्रतानोदयं, यत्सङ्ख्यागतमानमेय इह तद्वाक्यं सकृयुक्तियुक् / ताभ्यां यन्न निवारितं पदमधो वाक्यैः सहस्रेस्तकद्, दृष्टान्तप्रतिदर्शनात् क्षणमियाद्यावद्भयं सङ्गतिः // 73 / / मत्वैवं वरधर्ममार्गनिपुणः श्राद्धः परं . संवसेत , ग्रामे यत्र जिनेन्द्रचैत्यततयः स्याच्चागमस्त्यागिनाम् / निष्णा धर्मविधौ च जैनमतगाः क्षेत्रे गतोपद्रवे, सर्वे स्युर्गुणराशयः फलधराः सत्स्थानकात्तच्छ्रितात् // 74 / / श्राद्धस्य जन्ममरणोज्झितमेव धाम, प्रार्थ्यं, न तच्च दमनेन विनेन्द्रियाणाम् / चारित्रमेव पटु तत्र तदा स्वतन्त्र. स्तत्कारके सुबहुमानयुतश्च सधे // 75 / / गुणाय यत्स्याज्जिनराजमार्ग, पूज्यं तदेवेति सुपुस्तकानाम् / पूजा यदन्यन्नहि साधनं स्या-त्कलौ गुरूणां गुरुरेव तद्यत् / / 6 / / आराधनेन जिनपादिगणस्य मुक्ति . राराधनं च परिणाममनुप्रधानम् / भवेच्छुभः सोऽनुसरन् क्षणालिं, यथार्थशक्ति प्रतनु क्षणांस्तत् // 77 //