________________ 142 जैनगीता। लोके श्लाघा शासनस्योत्तमा स्याद्-यद्वच्छुद्धया नो तथाऽन्यैः ‘सुकायः। तिर्यग्देवास्तीर्थकृद्दानहेतो-श्छिन्नोद्वंशादानयन्तीह हेम // 6 // पत्तने पटुतरो धर्ममहिमाऽसमोऽशेषजैनेन सत्वरमुपेयः, . धर्मगात् पटुतरात् मानमहिमादृतात् शेषकार्येण नो सुघटतेजाः / भावनां पटुतरी लोकसमुदायजन्यां कर्तुमर्हेण जैनमतजातां, स्यन्दनो वरतरो देवतरुसन्निभो भ्राम्यते दानकीर्तिपरगानः // 68 // श्रीशत्रुजयरैवताचलगिरिप्रोद्यत्प्रभावार्बुद जीरापल्लिसुवर्णसानुसहितः सम्मेतशैलोऽऊजनः / यात्रैषां करणीयतापदमितः स्याद् दर्शनं यद् दृढं, तीर्थेशादिविहारनिर्वृतिमुखोदन्तावलेः संस्मृतेः // 69 // श्राद्धः सर्वजिनेशशासनरतः सूत्रोक्तमेकं पदं, संसाराम्बुधितारणेऽसमफलं द्वारं नरामर्त्यशम् / एकं शाश्वतसिद्धिधामगमने सामायिकं प्रत्यलं, मत्वेत्यात्मनि शान्तिमुद्धरति संवारप्रवेकोन्मुखाम् // 7 // दोषा ये क्रियया भवन्ति भविनां कष्टप्रचायोन्मुखा स्ते सर्वे सुनया विरुद्धकृतितस्तस्याः पदोन्मार्जनात् / दुर्वाक्याज्जिनरागगीतपदतोऽर्थानां प्रलापोत्थितात् , संसारे भ्रमणं गतान्तमिति वाक्चेष्टां श्रुतोक्तां सरेत् / / 71 / / राजा रक्षति रक्षणीयपदगां स्वीयां प्रजामादरात् , तत्साधनमिदमित्यवेत्य जनता तां गोधनेनांञ्चिताम् /