________________ जैनगीता। 139 पापप्रहाणस्य समस्तधर्मे, सुव्यापकत्वात् सुरभावसाम्यम् / गुणे चतुर्थेऽच्युतसीम्नि तद्वद्-देशाद्विरक्तिं श्रितवत्यपीह // 41 // . भव्यत्वपाकेन यथैव भव्याः , क्रमेण सम्यक्त्वमुखान्यवापुः / स्थानानि तद्वद्भवितव्यतागुणा-न्मुक्तिर्भवित्री लघुदीर्घकालात् // 42 / / ततो न दीर्घऽमरजीविते वा, लघुन्यपीष्टस्य विलम्बचिन्ता / श्राद्धा द्विधाणुव्रतसंहिता वा-ऽन्यथा न तत्राऽस्ति भिदा सुरत्वे // 43 // सम्यक्त्वसत्त्वे यदणुव्रतानि, योग्यत्वभाजि परथा न चैव / गीतार्थनागैस्तु यदुक्तमेतत् , त्रसेतराणां मननाद्धि योग्यम् // 44 // गुणक्रमो यः प्रतिपादितोऽग्रिमैः , स प्राग्गुणानां स्थिरतादिसिद्धथै / न चाग्रिमाणां भवितव्ययोगा-दुपागतानां विनिषेधनाय // 45 // नित्यं सम्यक्त्वशून्या अपि जिनवचनादोघतः साधवः स्युग्रेवेये देवभावं परिणतिशुचयोऽनन्तसङ्ख्याः प्रयान्ति / सम्यक्त्वावाप्तिहेतुर्यत उदिततरा ख्यायते जीवरक्षा, तस्मात्स्थैर्याय सोक्तिर्न तु गुणहतये तत्त्वविद्वेद्यमेतत् // 46 / / असंयतः संयततां वदन् यो, मतोऽस्ति पापश्रमणीयमध्ये / शून्यः स साधुव्यवहारवृत्त्या, तथोदितिः संयमिवन्दनाय / / 47 // सम्यत्वचिह्नानि शमादिकानि, निजात्मनि ज्ञातुमिदं मतानि / परात्मनि ज्ञातुमिदं तु धर्म-रागादिकानि प्रथितानि शास्त्रे // 48 // एवं च तत्त्वात्परधर्मवानपि, स्वाचारमाश्रित्य जिनेन्द्रधर्मा / साधर्मिकं तं मनसा प्रबुध्य-माने न मिथ्यात्वकणोऽपि भावी // 49 / /