________________ 138 जैनगीता। निजगृहे तु गुणाः स्वजनेः पुरा, यदि भवेयुरुपैति सुरम्यताम् / निजकृतेर्यदि सम्भव उद्धरो, वरतरं त्रिकसप्तमिता गुणाः . . // 33 // अवाम्यकुम्भः शुभवासवासितः, प्रशस्यते प्राज्ञवरैः प्रकामम् / तथैव यः स्याज्जिनधर्मवासितो-ऽवाम्यः कुतीयः स वरोऽस्ति जैनः // 34 // हृदब्जभागे शुचिसौम्यरम्ये, कुवासनालेशविमुक्तिशुद्धे / लोकोत्तमानां शरणे प्रभूणां, ध्यानं सदा मङ्गलकारकाणाम् / / 35 एतादृशो गुणवतो जिनसिद्धसाधून , . धर्मं च यो धरति नित्यमरागरोषः / स यः स एष परधर्मगतात् समूहा __ च्छेष्ठो यथा मणिगणोऽमलकाचजातेः // 36 / / विनयवान् श्रुतसारविबोधनः, कृतपरस्परधर्मविरोचनः / शिवपदं प्रति यत्नवतां समा रुचिरतो भवतीह सुनोदनः // 37 // परमतानि कृतेषु गुणान् बहून् , जगति सर्वजनान्निगदन्ति तु / जिनमतं निजरूपमुपानय-नकृत आह दुरात्मन आश्रवान् // 38 // यतो व्रतानां निजरूपता तत-श्चारित्रमोहोऽसुमतां विबन्धकः / उक्तानि नान्येन दुरात्मकान्य-व्रतानि मुक्त्वा जिनराजमेकम् // 39|| चारित्रमोहस्य विबन्धकत्वं, पापानिवृत्तेनहि तत्प्रतीतेः / तत्त्वाश्रितायाः प्रतिबन्धकत्वं, रुचेरनन्ताश्रितमित्यनन्ताः // 40 //