________________ जैनगीता। दुष्प्रापा जगतीह जैनमतिनी श्रद्धा समस्ताङ्गिभि स्तस्या दुष्करमेव सौम्यमनसा मुक्त्यै समाराधनम् / प्राप्तौ विघ्नकराणि कर्मदलिकान्युद्वेष्टयेद्भव्यता ऽऽरम्भार्थादिकुमोहरक्तमनसः स्याद्दष्करं पालनम् // 2 // केषाञ्चित् फलभाजनान्तसुभगा श्रद्धा नराणां यतः, संसारं भ्रमतां भवाश्रितिमतां विघ्नोत्करोद्भूतयः / स्वल्पान्येच हि साधनानि मतिमत्संसर्गसारोद्भवान्येतान्यात्मबलातिरिक्तसहितान्यर्थप्रदानीह नो // 28 // लभ्येयं भवभावतानववता तां नेतरेऽर्हाः श्रुतौ, चिन्तामण्यमरमाइतिपरा नेच्छान्तरा सत्कृतिम् / / लब्धेष्वेषु भवेन्न चेन्मुधिकया तेषामनाराधना, तत्साध्यं फलमश्नुतेऽत्र वदिवार्हच्छासने सगुचिः // 29 // प्राप्या श्रद्धा सुखं स्यान्निजपरिजनगः स्याद्गणानां समूहो, मार्गानुश्रायक/ मुनिपतिकथिता पंञ्चयुक्ता च त्रिंशत् / उप्तं धान्यं प्रभूतं भवति यदि भुवि शर्कराद्यं न भूरि, श्राद्धानों भाग्यमेतत् प्रचुरतगुणैर्वासितं यत्कुटुम्बम् // 30 // एषां गुणानां सुलभा स्वसत्ता, स्वजन्मनः प्राङ्मुनिशस्तरूपा। हेतुर्भवेत्तत्र सुभव्यतैव, भाग्योदयोऽप्यर्हगुमालयेषु // 31 // निजगृहं पुनराप्तसुसंस्कृति, यदि भवेत् सुकृतावनवर्धने / . इतरथा तृणपुञ्जसमुद्गम-सहशमेव' न रक्षणवर्धने // 32 //