________________ 140 जैनगीता। तथैव योऽभव्यतया जिनेन्द्रधर्माम्बुदे मुद्गशिलासमानः / तथापि शुद्धं मुनिचर्यया मुनि, वदेन्न तत्राऽस्ति कणोऽप्यघाप्तेः // 50 // श्राद्धस्य चर्या जिनपस्यह्याज्ञा, धार्या सदा मस्तकमञ्जरीव / महात्यपथ्यं सुमती रुजातुरो, यथा तथा दर्शनिनो विभिन्नान् // 51 // सम्यक्त्वचर्या जिनपूजनाद्याः, करोति संसारसमुद्रसेतुम् / / स्थिरा मतिः प्रत्यहमादृताभिः, क्रियाभिरस्मात् प्रतिघसमुद्भुरः / / 52 // आवश्यकषट्के मुनिभावसिद्धथै, शिक्षाव्रतानीष्टदिने विधेयात् / दानं सुपात्रे मलमुक्तशीलं, चित्रं तपो भावममोघमेयात् / / 53 / / युग्मम् स्वाध्यायलीनो व्रतभावरूप-प्रमुख्यदर्शिश्रुतरत्नराशेः / सर्वास्ववस्थासु निधानभूतं स्मरेत् सदा पञ्चनमस्कृतिं च // 54 // श्राद्धत्वशोभावहने प्रवीणः, परोपकारोऽस्ति ततोऽत्र यत्नः / यथात्मनो जीवितमेव कान्तं, तथा समेषामिति तत्प्रदेयात् // 55 // त एव धुर्याः सुजनेषु ये स्यु-गुणान्विताग्निःस्पृहमर्चयन्ति / तदाऽमितान् प्राप्य गुणान् शिवाध्वो-द्देशास्तदर्हा न हि किं जिनेशाः / / 56 // गुणानाधायान्तः सुजनसमुदायो गुणिजनान् , गुणाप्त्युद्देशाच्चेद्भजति नितरां वै समुचितः / ततोऽईन्तोऽाः स्युर्जिनपतिगुणानां स्तवनतः, !!57|| देवो धर्मों जीवमुख्यार्थसत्त्वं, जीवे न स्यान्नैव स्वज्ञानगम्यम् / अज्ञातेऽस्मिन् साधनं तत्फलं च, नैव स्यात्तत्सूरिरर्यो बुधानाम् // 58