________________ 134 जैनगीता। अन्धोऽरण्यं प्रयातो यदि शुभसुकृतो देशकादध्वयायी, चेदेषोऽशुभ्रभावी दुरितचयधरो याति मार्ग श्रमाढ्यम् / // 9 // यथा न भाविभाग्यवान् वृथोपदेशदायकान् , शरणमेति भाविसौख्यसम्पदा समन्वयात् / तथा कुतीर्थ्यतन्मतानि मन्यते न दर्शनी, ' मतं ततो हि दर्शने सति श्रुतं शुभं ननु // 10|| एवं प्राप्तः स्वयं स्याच्छुचितरमननं स्युः परेऽपीदृशाश्चेत् , संयोगः श्राद्धर्भवति नियमतो ,धर्मकल्पद्रुमाम्बु / संयोगाः सर्वरूपा निखिलजनचयैर्लब्धपूर्वा ह्यनन्ताः, संयोगः श्राद्धलोके भवति तु कतिचिज्जन्मभावान्न भूरीन् // 11 // सम्यक्त्वाराधनं यद्भवति भवभृतो वर्जयित्वा विराद्धिं, सप्ताष्टौ जन्मभावान्न परत उदयो यत्ततो मोक्षधाम्नः / एवं श्राद्धैरपि स्याजिनमतरसिकैस्तद्वतः स्वस्य योगो, ज्ञात्वैतद्दलभत्वं शुचितरमनसा सादरः श्राद्धलोके // 12 // कुलं सच्छ्राद्धानां सदृशमनघं देवमणिभि- . यथा तान् भाग्यायो भवति नर आराधनपरः / तथाभव्यत्वं स्याद्यदि च परिपाकगतिमत् , सुसम्प्राप्तं श्रेयान् भवति जिनमार्गमतिमान् // 13 // यथाऽभव्यानां स्याजिनपगदितश्रौतपठनं, घने मोहे क्षीणे पुनरपि च तस्मात् क्षपयति / ककारादेः पाठे सुगतिगमनं धर्मकरणात् ,