________________ जनगीता। वारांधरेषु नितरां श्रितकोटिकोटिं, , नैवं तथापि लभते श्रमणोपसेवाम् // 3 // भव्यत्वभावे परिपच्यमाने, भवेद्विनाशस्तदुपर्यवस्थितेः / कृतिर्भवेदात्मन ईदृशी या, भेदस्तु भावी कुलिशाभपापे // 4 // न तादृशीयन्तमटाटयतो भवं, प्रस्फोरयामास कृतिं कदापि / गीतं ह्यपूर्वं तत एव विज्ञै-रप्राप्तपूर्वं करणं कृति ताम् // 5 // नैतत्कस्यापि पूर्व जगदनुभवतो वर्जयित्वाऽऽत्मयत्नं, जातं कस्यापि जन्तोन भवति भविनो भाविनीद्वेऽपि काले / तल्लब्धं स्वात्मयत्ने प्रचुरतरबले स्फोरिते भव्यभावाद् , जातं श्राद्धत्वमस्मात् परममधिगतौ शुद्धसम्यक्त्वलब्धेः // 6 // एतच्चित्ते निधायेतरजनहृदये तत्त्वनिष्ठां प्रमाय, शुश्रूषा धर्मरागो जिनगुरुविषयेऽभिग्रहो व्यापृतौ चेत् / सत्या ज्ञेया हि तस्मिन् परिणतिरमला शास्त्रवाक्याश्रयेण, स्वस्मिन् ज्ञाने यदङ्गं न च परवशिनो नैतदपराङ्गताभाक् // 7 // सत्त्वेऽस्य स्वात्मनोऽपि प्रभबति रुचिरा नित्यताद्यङ्कितेऽर्थे, जीवादौ स्यात्पदाका रुचिरमरनराऽकम्पनीया सुबोधात् / द्वेधाऽस्या दुःखधाम्नि फलमनुघृणयोद्विग्नता जन्मवार्द्धमोक्षे लीनं मनश्च न भवति कणशस्तत्त्वभूते (सार्थ) दुरात्मा // 8 // सम्यक्त्वे शुद्ध (भाव) रत्ने वृजिनचयहतेः प्रापिते तीव्रभावाद् , यत्नेनात्मामलत्वकरणकृतिभरे स्यात् प्रवृत्तिः श्रुतेन /