________________ 132 जैनगीता। श्रमण्याः सत्कारं विपुलविधिना श्रावकजनो, विध्यान्नित्यं चेत् कुलमपि सकलं तत्कृतिपरम् / भवेदेवं धर्मोद्यमपरहृदः सर्व उदिता___जिनेन्द्रः सद्धर्माच्चलयितुमलं नाऽमरगणः // 7 // जैनोऽसौ धर्ममूलं विनयमधिगतो धर्मकार्योद्यतेषु, .. साध्वीवर्गषु यस्माजिनगणयतिनां या गुणानां प्रसक्तिः / तां सर्वां मूलरूपां विशदतमगुणामेष वर्गों दधाति, मानं धत्ते गुणानां य इंह नरगणो धन्य एषैव जैनः // 71 / / . इति अष्टाविंशोऽध्यायः / / एकोनत्रिंशोऽध्यायः / ( श्रावकाधिकारः ) जैनो यो मनुते भवाब्धिमटतां सूक्ष्मान्निगोदादहिनिस्सरणं नहि दुष्करं परकृतं लोकानुभावो यतः / सम्मील्याश्रितभव्ययाऽघनिचितिं दुःखित्वभावे धरन , निर्मायाऽल्पमसुश्रितं नयति तन्नेदं फलं स्वोद्यमात् // 1 // एवं क्रमेण समिलायुगयुक्तिवत्स, मोक्षस्य भूमिमनधां नरतां च तत्र / देशं कुलं प्रवरजातियुतं लभेत, सुश्राद्धमेकमलमश्नुत आत्मयन्नात् // 2 // मोहस्य संस्थितिमयं क्षिणुतेऽप्यबोधा देकोनसप्ततिमितामधिकां च किञ्चित् /