________________ जैनगीता / 131 जैनोऽसौ विधिवद्दधाति हृदये स्वेषां जनानां मति,... जैनेन्द्रे वरधर्मकर्मणि परां कर्तुं सुधासोदराम् / चिन्तां तत्र विशेषतो निजकुले मात्रादिके स्त्रीगणे, .. तां सफलीकुरुते श्रमेण सुवृषार्यासङ्गतो बुद्धिमान् // 63 // आर्याणां महिमाऽयमाप्तयशसा वंशस्य यन्निश्चलं, शीलं मेरुसमं बिभर्ति ललनालोकः समस्तोऽमलम् / तत्रैषोऽत्र भवेद्यदीतरकुले जातं नरं न स्पृशेत् , शीलेनाप्तयशा भवेच्छ्म युषां संसर्गरक्तो भवेत् // 64 // येषामार्याकुलं नो सुकृतकृतिविधौ शुद्धमार्गप्रदेष्टु , धर्माचारे प्रवीणां सुकृतवरखनि देष्टुमर्हाऽबलानाम् / शुद्धां धर्मस्य चेष्टामपरपुरुषतः स्याच्च धर्मप्रवृत्तिः, स्त्रीणां नो तत्र शीलं भवति ऋजुशीला धर्मनाम्नाऽघमग्ना // 65 / / आर्याकुलेनापि तथात्र कार्य, श्राद्धयो यथा स्युः सुकृतोद्यता रढम् / वर्गों महान् यत् पुरुषादथाऽऽसां, कुलं च धर्मप्रवीणं व्यधास्यन् // 66 / / यथा च मोहं न बजेयुरन्य-कुलोत्थिते पुंसि पराश्च धर्मे / भवेयुरेता व्रतधारिवृत्तैः, संस्कारमाप्याः श्रमणीजनेन // 67 / / निसर्गसम्यक्त्वमुदीरितं श्रुते, श्राद्धार्भकाणां प्रवरं तदेतद् / आर्याजनाद्धर्मपरायणत्वं, जातं समाख्यात्यबलाजनस्य // 68 // शोभनस्य कुलधर्मसद्विधे-र्या पुनः फलपरम्पराऽनघा / भाविनी भव इहापि तां पुन-दर्शयेयुरार्थिका न चापरः // 69 / /