________________ जैनगीता / सङ्ख्यातीताः स्त्रियोऽगुः शिवपदमसमं प्राप्य कैवल्यमय,. प्रैवेये ते हि जग्मुः सचरणभविनो ये नु चैते पुमांसः / तत्रेयुयऽप्यभव्या न च पुरुषवरा नैव चैता अनाद्यं, प्राप्यास्थ्नां सञ्चयं स्युस्तदपगत शुभस्यास्ति वाचां प्रसारः // 56 / / श्रीआदिनाथेन विधेविधात्रा, बोधाय मुक्ते भरतानुजस्य / आर्य, ततश्चाप स बाहुसाधु-निर्ग्रन्थयोषे यमितप्रभावे / / 57 // चलितमपि चरित्रान्नेमिनाथस्य बन्धु,. व्रतपथदृढतायै योपदेशं ततान / स्थिरतरचरणोऽसौ बोधमाष्य प्रजात स्तत इति न समोऽयं राजिमत्याः प्रयत्नः / 58 / / भूपेषु वयों नृप आर्हतः श्री-सुहस्तिपादाम्बुजभृङ्गरूपः। श्रीसम्प्रतीति भरतं सशोभ, चकार यश्चैत्यमुखैविभूषः / / 59/ सुहस्तिनस्ते भरते त्रिखण्डे, स्वीक्षितानेकमुनीन्द्रवयः / प्रस्तारयामासुरनेकशाखा-प्रशाखयाऽशेषधरां सुसाधून // 60 // तानाचार्यान् विविधविधिना पालयन्ती जिनानां, धर्मस्योग्रां सकलसुकृतिनां भाविमोक्षप्रधानाम् / ख्याति चक्रे प्रवचनयशसे सोदरेणाप्तसङ्गान् , . नाम्ना यक्षा प्रवरमतिधनाह्यार्यगिर्याख्यधळ // 6 // मात्रा गुरुभ्योऽर्पित आर्यवत्रः, षण्मासमात्रामवयस्कबालः / स्वोपाश्रये तं धृतवत्य आर्याः, कथं न सङ्घस्तदुपक्रियां स्मरेत् ॥६स