________________ जैनगीता। 135 तदा स्याच्छ्राद्धानां प्रवरतरवंशजनुषां / / * कथं मोहो जातोऽपबलविषभां न स्थितिमितः // 14 // यथा धान्यान्युप्तान्यवनितलमाप्यरुचिरं. भवन्तीष्टोत्पत्तौ कृषिकृतिगणैकार्थितमतौ / / समर्थान्यप्येषां पचनविधिसिद्धिस्तु करणा, तदाऽज्ञानेनाप्तात् प्रथमकरणादग्रत इह // 15 / / जीवेनाधिगतं निसर्गजनितं सम्यक्त्वमादौ न चेत् , तज्जायेत सुधीरनिर्मलमतेः संयोगतद्वाक्यतः / श्राद्धानां वरयोगतोऽधिगमजं प्राप्तिः सुखेनास्य वै, संयोगैकधनं न कार्यमुदयेत् क्वापीष्टसिद्धिप्रदम् // 16 / / चैत्येभ्योऽपि च जायते जनिभृतां सम्यक्त्वमेतत्परं, चैत्यानि प्रतिबिम्बसन्ततियुतान्येकाकिनः श्रीवकात् / स्यु वं न च तानि सन्ततमिहार्चायाः पदं जायते, चैत्यानां जिनबिम्बराजिसजुषां योगः ‘समूहोत्थितः // 17|| जिनवरागमपारदृशो मुनेः, शुचितरागमवस्तुकथोदितेः / भवति सदुद्दगनुत्तरताश्रितो, मुनिवरागमनं समवायतः // 18 // समस्ताः क्रिया धर्ममय्यो जनानां, स्युः साहचर्यात् समूहे भवेत्तत् / कुग्रामवासं दधतां लघु स्यात् , धर्मोद्यतानामपि धर्मनाशः // 19 // धों द्विधाऽऽद्यः सहकारसाध्यो विचारसाध्यश्च भवेद् द्वितीयः / सामर्थ्यसाध्ये द्वितीयेऽपि तस्मिन् , नोत्पत्तिरक्षापरिवर्धनानि // 20 //