________________ ज जैनगीता / यदि च संहननं नहि योषितां, प्रथममेतदरिष्ठमवाससाम् / यत इदं नहि जैनमते कचि-द्भवति कीकसतो जनकाश्रितात् // 44 // सजी यो जातिमाप्तो नरभवसहितां स प्रभुः केवलाय, संहननं यो बिभर्ति सकलसुरगतिप्रापणादाद्यभावि / विघ्नानां घातिजानां क्षणभरकृतितो नाशमाधातुमर्ह, मत्वेदं सर्ववेदाः शिवपदमयितुं द्रव्यतोऽर्हाः श्रुते न // 45 // वेदो नपुंसकमपि पुरदाहतुल्य-श्चेद् द्रव्यतो न विदधाति विबाधमाल्याः / भावात्तु ते प्रवरमाप्य बलं त्रयोऽपि, श्रेणेः क्षयं ननु व्रजन्ति न . . कापि शङ्का // 46 // प्रवरवरशासनं जगति जिनशासितं, द्रव्यमेकान्तिकं न ह्युवाच, प्रबलतरमोहतः परवशितचेतनो द्रव्यमेकान्तिकं प्राह मूढः / सिचयचयबाधनं द्रविणललनाश्रितं वेदमाहानुयुक्तोऽधमोक्तिः, श्रृणुत सुजना जनिं वरसुफलसाधनी वाचमाधत्त चित्ते स्वकीये (ऽहंदुक्तां ) // 47 वासोऽन्वितात् सितपटाद्धरिद-म्बराणां, जातः प्रभव इत्यभवत्तदकाः प्रश्ने कृते जनतयाऽम्बरसत्त्वजाते, दिक् चैव मेऽम्बरमिति प्रतीता तदाख्या // 4 // प्राक् पार्श्वनाथजिनपस्य बभूव सधः, साधू द्धरः कलितसर्वसितादिवर्णम् / वस्त्रं दधचरमतीर्थगतस्तु शुभ्रं, ख्यातं ततो जगति शुभ्रपटा इतीमे // 49 //