________________ जैनगीता। तो न्यषेधि श्रुतसागरैः श्रुते, वर्षादिहेतोरपि धाममध्ये / स्थितिःशीलसुसाधनायै, न पञ्चमः स्याद्गहिणां न चेक्षणम् // 38 / / क्ष्याः श्रमण्यः सकलस्वशक्त्या, समस्य सङ्घस्य शिवाध्वसिद्धयै / प्रकार्पुरग्न्यां श्रमणीजनस्य,(रक्षा)दुष्टोपसर्गात् सूरिकालकाख्याः।।३९।। शशकभशकबन्धू चक्रतू रक्षणं प्राग, ___ दशशतहतिशक्तौ आर्यिकायाः प्रकामम् / रुचिरमुनिविहीनां दुष्टनिश्शीलरुद्धां. सकलबलकलाभिरार्यिकां त्रातुमुत्कौ // 40 // परिपेलवसत्त्ववती श्रमणी, शिवमार्गपरा नितरां विमला, शेशुबालतपस्वि जराज्वरिताः, किमु रक्ष्यपदानुगता न मताः / रहिता प्रतधारणया गृहिणो, यदि तामसहां पटयेयुरिह, तलोपमधिश्रयति प्रवरा, तदुदाहरको नहि सर्वविदः // 41 // तत्त्वतोऽसुमान्नहि स्ववेदधारको विभु यतः समस्तवेदनाशसम्भवा समस्तविद् / वेषदेहसंश्रितो विकार आत्मनो ननु न बाधते यतः सको न मोहजातिसम्भवः // 42 / / यदि च सङ्गमात्रता विबाधिकाऽस्ति केवले, सकेवले सतीह कोऽपि चीवरेण वेष्टयेत् / तदा विनाशि केवलं किमूररीकृतं नहि ? , यदाङ्गनांशुकेन चेत्तदा तु नश्यति द्रुतम् // 43 //