________________ 126 जैनगीता। निवेश्य ताः साधव उग्रसत्त्वा, ग्रामान्तरे वासमुपश्रयेयुः / वासो हि मासद्वयमेव धाम्नि, गणोद्धुरैस्ता अपरं तु नेयाः // 2 // प्राक प्रत्युपेक्ष्यापरधाम वृद्धा, योग्यं मुनीशाय निवेदयन्ति / मत्वा निराबाधमुदारभावं नेतुं परं धाम नयेयुरार्याः // 30 // यथाऽवरोधस्य नृपा गताघ, कुर्वन्ति देशान्तरगन्तुकामाः / रक्षापुरोगं नयनं तथाऽऽ3 - स्तीर्यन्त आर्याः शुभसत्त्वरक्ष्याः // 31 // गणोद्वहा नैव समे मुनीशा, आर्यागणं वर्तयितुं समर्थाः / आर्यागणं वर्तयितुं क्षमो यो, भवे तृतीये शिवगो ध्रुवं सः // 32 // सूत्रे हि पर्योषणकल्पनाम्नि, द्वितीयभागे प्रथमाङ्गसंस्थे / ' गण्यादिपुगात्पृथगुक्त आप्तैः, सार्यासु धत्ते गणधार आज्ञाम् // 33 // यथा पदानि प्रथितानि गच्छे, सूरीश्वरादीनि सुसाधुमान्ये / तथाऽत्र पञ्चापि महत्तरीमुखा-न्याणि साध्वीगणपालकानि // 34 // आर्याऽपलापे त्रय एव भेदाः, सङ्घस्य वा पञ्च न चेदमार्यम् / तत्सूत्रभेदे प्रवणो हि मन्यात , साध्वीव्युदासं ननु नग्मचारी // 35 // कस्या अपि स्पर्श उदस्यते स्त्रियाः, स यात्वसौ त्याज्य उदारसत्त्वात् / स्पर्शः पुरुषस्य तथा द्वयोभवे - च्चारित्रसारस्य यथार्थरक्षा // 36 // धामद्वयं तत्पृथगेतयोः स्याद् , गमागमौ नैव न च प्रवेशः / यथा तथाऽन्योऽन्यसमागमो न, यथार्थतथ्या जिनशासनाज्ञा / / 37