________________ जैनगीता। 125 नाधः प्रकृष्टं ललनाः प्रयान्ति, स्थानं ततः किं परमैयरुस्ताः / पापोपचित्यां नहि ताः स्वतन्त्रा, धर्मे तु कस्ताः परतन्त्रयेन्नु / / 21 / / न चास्ति साम्यं त्वध उर्ध्वगत्योः , स्पष्टो विरोधो जिनराड्विचारे (त्र जिनेन्द्रमुख्ये) / समस्तसौख्याधिमियति साऽग्ऱ्या, स्थानं युतं केवलशाश्वतश्रिया // 22 // तपःप्रभावोऽसम आर्हतानां, नवाघरोधेऽथ पुराण (रोऽघ) नाशे / प्रत्यक्षमासां प्रबलो जगत्या-मसौ ततः किं न शिवं ह्यमूषाम् ? // 23 // विकल्पभेदान् प्रविदर्शयनि-र्भाष्ये न्यगादीत्वरलिङ्गभेदः / भेदो न चोक्तोऽत्र मनोविबोधे, लिङ्गोद्भवोऽस्तु प्रमदासु मोक्षः // 24 // स्त्रियो जगत्यां खलु दुष्करक्रियाः , प्रेतेऽपि पत्यौ मरणावधिं यत् / वर्मेव रक्षन्ति सदा स्वशीलं, मृतेषु दारेषु नरास्तथा नहि // 25 // रक्षायै स्वकशीलरत्नसुनिधेः कोटिं व्यथानां परां, योः सत्यो जगतीह सुन्दरतरोद्भावान किं सेहिरे ? / तासां शेषितपापिकां गुणधरीमाप्यां दशां को नरः, श्रद्दध्याद्गतकुश्रुतिस्मयमदो नैवागमौघेरिताम् // 26 // श्रद्धा हि धर्मस्य पवित्रताभृ-न्मूलं सदा जीवगतं सुधार्यम् / तद्रोपयेद्वंशगतं सुरामा - स्ताः सुष्ठुमार्गाः श्रमणीसुसङ्गात् // 27 // वंशे कुले चापि भवेत्प्रभुर्य, आज्ञा स्वकीयामनधां निवेष्टुम् / / निवेश्य तस्मिञ्छ्रमणीसमूहो - द्वहं गणीशः श्रमणीधरे युः // 28 //