________________ 124 जैनगीता। न धर्महेतुतो मता तनुर्ममत्वसाधनं, तदाऽम्बराणि किं ततस्तथाभूतानि सन्ति न ?. * // 14 // पत्यौ मृते तदनुकश्चिदिहाङ्गनाजनः , ___स्नेहाद्विशेद्यदि चितां जनतासमक्षम् / / तस्यास्ति दुस्त्यजमिदं किमु चीवरं यद्, नग्ना न सन्ति बहुशः . किमु योगिकान्ताः ? // 15 // स्थानानि सन्ति ललनाङ्गगतानि जीव __ संसक्तिमन्ति यदि नैव ततश्चरित्रम् / तासां तदा पुरुषकायगतानि कि नो, चिह्ने गुदे जठरभाग उदीयतेऽङ्गी ? // 16 // षटकायजीवयतनाप्रयतस्य न स्यात् , , पापस्य लेश इति वारिधरेषु सिद्धाः / न ह्यङ्गनासु यतना नहि, जीवबोधात् , . तत्केवलं चरणयुक्तममूषु ( न स्यात् ) किं न ? // 17 // अध्येतुमर्हा नहि दृष्टिवादं, स्त्रियस्तदाऽऽसां किमु केबलं स्यात् / न जातिहीनाय चरित्रदानं, ततो न किं सोऽव्ययमाप्नुयान्नो ? // 18 जिनादिकल्पा न भवेयुरष्टा-ब्द्यानो(उ)नवर्षा विधिशास्त्रवाक्यात् / एकोनत्रिंशच्छरदामधस्ता-च्छामण्यभावोऽपि न केवलं किम् ? // 19 // भवेन् मनः पर्ययवेदनं न हि, त्यक्तो न यावद्गहकार्यभारः / ततो न किं स्यात्स्वकलिङ्गशून्ये, सार्वश्यमुक्ता कथमत्र भक्तिः // 20 //