________________ // 7 // जैनगीता। 123 शिष्यार्पणान्मुनिपतिभ्य उपार्जितं प्राग, . यत्तीर्थनाम जिनपतेः परिवन्दनायाः / तद्धारितं फलभरं सुनिकाचनेन, सेवापराभवभवोद्दलनाय दीक्षा मगधदेशविभुपनायको, विविधकूटभरेण समर्जयन् / बहुतमा ललना जिनवीरतः श्रमणमार्गमयं समतारयत् // 8 // विविधशास्त्रसुधारससेकतः, (फल) श्रमणवृत्तिरुदग्रफलानता / स्वयमशक्तित उग्रप्रसक्तितो, भवरतोऽपि परानं कुरुते मुनीन् // 9 // नरा यथा मोक्षविमार्गणोद्यता-स्तथैव नार्यों भवभावभेदिकाः / दुर्गं सुदुर्गं व्यतिवृत्य मोह-मनन्तबन्धान प्रविनाशयन्ति // 10 // सम्यक्त्वलाभात् प्रथमं सुदीर्घा, क्षेया स्थितिमोहनृपस्य तीव्रा / अतीत्य तां चेल्ललनाः समीयुः प्रयान्ति कैवल्यमिमा ( ममूः) न चित्रम् // 11 // स्रोत्वस्य हेतुर्यदभूदमुं सा-ऽनन्तानुबन्धं क्षयितुं समर्था / सा किं न शेषाः प्रकृतीः क्षिपेत, भागे ह्यनन्ते बलमेव तासाम् / / 12 / / दर्शने विबन्धकं च कर्म यत् प्रगीयते, क्षेपकोऽस्य साधुतोऽपि निर्जरेदसङ्ख्यकम् / अस्ति चेत् समर्थताऽङ्गनाजने तदाश्रिता, तदा सदा स किं भवेन्न साधुतापदान्वितः // 13 / / न चाम्बरं विरोधभाक् चरित्रसम्पदा मतं, यतस्तनोर्न किञ्चिदन्यदाश्रितं ममत्वकृत् /