________________ 122 जैनगीता। / अष्टाविंशोऽध्यायः / ( श्रमण्यधिकारः ) जनाऽसौ श्रमणीगणं शिवपथोत्साहं धरन्तं सदा, पश्येत् स्वीयकुटुम्बलोकललनावर्गान्मुदा सादरम् / स्त्रीत्वाज्जन्मन आरतोऽपरबलं निश्राययो जीवितस्तं संरक्षणमानभक्तिकरणैः पुष्याच्च धर्मोद्यतः // 1 // तं रक्षेन्निजसारसुन्दरतरस्त्रीसार्थमध्ये धरन् , तस्योपासनया स्वकीयजननं सम्प्राप्तसारं निजम् / मातास्त्रीभगिनीमुखः प्रतिदिनं स्वस्योक्तितो मानये देवं चेत्प्रविधीयते यदि तदा सच्छ्राद्धतामाश्रयेत् // 2 // स्त्रीभ्यः पुराऽनेकविधान् प्रचक्रुः सुदारुणान् देवनराग्रगाणाम् / सङ्ग्रामलक्षान् महतो भयङ्करान् योऽसौ मुरारिः समदीक्षयत् स्त्रियः // 3 // मात्रा पुरा सप्त वराः सुपुत्र्यो व्युद्ग्राहिताः कृष्णपुरो विमार्गणे / याः स्वामिनीत्वस्य कृते स विष्णुस्ता नेमिनाथं सकलाः समर्पयेत् / / 4 / / द्वारावत्या विदाह जिनपतिमुखतो भाविनं वेदयित्वा, शाम्ब-प्रद्युम्नहेतोर्मरणमुखकृतोमान्निदानाद् मुनीशात (तमोऽन्तात् // पुर्यां तत्राखिलायां प्रव्रजनकृतयेऽदापयद् घोषणां सः.. यः कश्चिद्दीक्षितः म्यात्तनुजमुखजनं निर्वहिष्यामि तस्य // 5 // परःसहस्रान् जिनराजपार्श्व, राज्यादिलोकान् समदीक्षयत् सः / विष्णुस्तथाकारणतो न्यबद्ध (भान्त्सीत् ) श्रीजिननामाऽचलितस्व भावम् // 6 //