________________ जैनगीता। 121 शमबोधचरित्रगुणार्पणतः शिवसाधनशुद्धसहायकृतेः, गतकाममनुश्रितधर्मपदं परिचारयतिश्रयताच्छ्रमणम् // 68 // भव्यमाराधयेच्छिवपथं साधयेत् गुणगणावाप्तिनिपुणं हृदयं धरेत् / पापमार्गाच्च्युतं समवरश्रेणिगं निर्जरावहनगं संयमधरं हृदि चिन्तयेत् / कर्मदावानले शमपयो वर्षयेद् गुणिजने मोदमनिशं मनसा वहेत्, शान्तिवारांनिधिः कृतमघं चिन्तयेन् मदनगे नैव गमनं सुजनो धरेत् // 61 // न यस्य रागरञ्जनं न लेप आश्रिते जने, सचित्तमुख्यसाधने न सङ्गलेश आप्यते / ज्वलँस्तपोजतेजसा दिवाकरोऽवदीप्तिमान् , स सौम्यतागुणैर्जनेषु चन्द्र आप्तवानमुम् // 7 // :: स ईदृशं मुनिं सदा श्रयेत भावशुद्धितो, द्वयेऽपि यान्ति सद्गति मुनीश्वरोऽथ वन्दकः / न जैनशासने मताऽधमर्णरीतिरल्पशः, प्रदीपकान्तिवत्समेषु जायते फलं बहौ // 71 / / स जैनः स्याच्छ्रेष्ठः प्रचुरतरगुणैर्युक्तमनिशं, सदा मोक्षोद्योगं दधति च परमानन्दकलितः / शिवाप्त्यै सत्साधुं निजपरिकरतो वत्सलधरं, नमेन्मर्हेत् शुद्धं निजजननफलं नापरमतः // 72 / / इति सप्तविंशोऽध्यायः /