________________ जैनगीता। मत्यादयः सन्ति ससाधना इह, बोधाः स्वरूपेण फलेनयुक्ताः / आदेयहेयादिफलाः स्वयं ते, श्रुते तु चारित्रफलं न चान्यत् // 56 // ये त्वाश्रवेभ्यो न निवृत्तचित्ता, न संवराणां धरणे प्रसक्ताः / मिथ्याशस्ते मतिशास्त्रहीना-श्चक्षुर्वथा कूपपतज्जनानाम् // 57 / / अध्येयं मुनिभिः सदा गुरुपदोराराधनातत्परर्यद्वक्त्राद्विनिरेति शास्त्रममृतं नित्यं मृतेर्वारकम् / वासोऽनेन गुरोः कुले फलभरं दत्ते मुनित्वे धृति, नोक्तं ह्येकचरस्य संयममुखो धर्मः परार्थोद्यतैः // 58 // सोऽत्र पूज्यपदके गुणसङ्घयुक्ते, भेदेश्चतुर्भिरुदितेऽमलमार्गकाङ्के / उद्देश एक उदितः सकलाघनाश स्तत्रोद्यता मुनिवरास्तत्सेविनोऽन्ये // 59 / / दानं सुपात्रमिति यद्गदितं मुनीशै- . स्तत् संयमस्य परिपुष्टिविधानहेतोः / प्रेत्याप्तिरस्य मनुते निरर्धेकदाना द्यत्पोष्यते परभवे शतशस्तदाप्तिः // 6 // पुरारित्रिखण्डस्य नाथो विरत्या, हीनस्तथा श्रेणिकराजराजः / भविष्यतस्तीर्थकरौ तदेतत् , निजाप्तवर्गस्य मुनित्वदानात् // 61 / / मुनिभ्यो नितान्तं तनोतीद्धवर्गों, निदानं सुखानां धनिश्रावकाणाम् / वस्नानपानोपकृतिप्रधानं, तेषां भवेत् संयमसाधनं सुखम् // 62 // .