________________ 118 . जैनगीता / धर्मातिरिक्तं सकलं समुज्झित-मनन्तरं चापि परम्परं च / तेनैव शास्त्राधिगतावमीषां, स्थानं यदेते दुरितान्निवृत्ताः / // 48 // धर्मातिरिक्ते नहि सदृशां स्या-च्छ्रेयस्त्वबुद्धिर्जगतीपदार्थे / तथापि पापप्रवरोऽवसाय इतीह नो तेप्यधिकारिणः स्युः // 49 // मिथ्यादृशो जीववधेषु सक्ताः, परिग्रहस्य प्रचये च लीनाः / ते त्याग(मोक्ष)मार्गोंदितयः समस्ताः, संसारमार्गा इति सङ्गिरन्ते।।५७/ न काकवक्त्रे परमेष्ठिवाचो, निष्ठा वधे ये च परिग्रहे च / तेषां हि वक्त्रे शिवसार्थवाचो, भवेयुरा नैव च तासु रागः // 51 // ज्ञानं मुनीनां शिवमार्गसिद्धयै, पर्यायमानेन ततो ह्यमीषाम् / अङ्गोदितीनां क्रियते हि दानं, नेत्थं विदन्ति प्रसभं ह्यगीताः // 52 // उद्घोषणां कर्तुमलं नयानां, ये सन्नयेषु प्रसभं प्रवृत्ताः / आरम्भमग्ना नहि जैनवाचां, हीनां वधाद्यैर्गदितुं समर्थाः // 53 // शास्त्राणां प्रथनं कृतं जिनवरैः सङ्घस्य धर्मोदधेरादानाय शमप्रबोधचरणान्यर्घोत्तराणि सदा / धर्तुं सत्परिणामरत्ननिचितेः पाठोऽपि तेषां मुनेः, तत्तत्साध्यमृतेऽङ्गमुख्यपठनं शाठयं परं कद्दृशाम् // 54 मत्यादीनि विबोधनानि भविनां चत्वारि सन्ति स्वयं, जातानि प्रशमाकरं श्रुतमिदं तीर्थङ्करोक्तं परम् / कारुण्यं भवभावविच्युतिकरं चित्ते निधायात्मनां, दत्तं तत्सफलं भवेद्यदि पुनरुद्यम्यते मुक्तये // 55