________________ 117 जैनगीता। छेदोपस्थापनीयाभिहितिसुधरणात् साधुपर्यायसङ्ख्या, गण्या . यस्मात्ततोऽमी व्रतपरिणतिकाः सद्वितीयाच्चरित्रात् / साधूनां सर्वचर्या मुनिपतिगणतद्वासिनां निश्रया स्यात् , पश्चात् प्राप्तः श्रुतालिं परिणमितदशः स्यात्तृतीये चरित्रे // 42 // एवं श्रामण्यचर्यामनुगत उदितो मोहनीयक्षयाय, तत्रापि प्रान्त्यभागे यदि भवति कणो लोभगो नाशनीयः / तत्राऽसौ शुद्ध आत्मा चरणमनुपमं तुर्यमाधाय तिष्ठेत् , सूक्ष्माक्तं सम्परायं जिनपतिचरणाल्लेशमात्रेण हीनम् // 43 // जिनानां चरित्रं कषायैर्विहीनं, यथाख्यातमेतद्धि वर्यं समेषु / समग्राः पुरोक्ता अधिक्कारपात्रं, समाश्रित्य वर्तन्त एतच्चरित्रम् // 44 // एवं साध्यस्य काष्ठां विविधगुणवती लक्षणीकृत्य पञ्च, प्रोक्ताश्चारित्रभेदाः शिवपदपथिकाः संयताख्यां वहन्तः / सर्वेऽप्येते दशापि प्रवरगुंणगणा भिन्नभिन्नस्वरूपाः , माध्यं साधुत्वमेषां निजकृतिसजुषामीjया हीनचित्ताः // 45 / / नम्याः सर्वेऽपि जनैः परमपद्गता ईशितारो गुणानामन्त्ये स्थाने स्थितास्ते नतिपदसहिताः सर्वशब्दस्तु साधौ / यत्तत्रानेकरूपाश्चरणमधिगता भिन्नभिन्नोक्तचेष्टाः , सर्वेऽयेते समाः स्युर्द्रमकनरपतिस्थानभेदोऽपि नाऽत्र // 46 // सर्वेष्येते नम्यपादा मुनीशा, धर्मानीके त्यक्तधर्मातिरिक्ताः / ओहोन्माथे बद्धकक्षाः सदैते, नम्याः स्तुत्याः सर्वदा सत्क्रि ार्हाः॥४७।।