________________ 114 जैनगीता / आजन्मभाविनि कलानिचये यदीदं, . किं तर्हि नैकभवसाध्यफले चरित्रे / ' तत्राऽस्ति योगजकृतिर्बहिरात्तहेतु रात्मोद्धतिः पुनरिहान्तरसाधनाढ्यः // 21 // छात्रत्वं यदि न त्यजन्ति सकलां विद्यां ग्रहीतुं गता, मन्दं मन्दमनुश्रयन्त उदितां तां शिक्षमाणा अपि / अव्याबाधपदैषिणोऽपि हि तथा श्रामण्यमल्पं गता. यत्कर्माऽस्ति घनं भवैरगणितेबद्धं च क्षेयं हि तत् // 22 // ऋद्धौ कीर्ती क्रियायां गिरिवरचटने ग्राममन्यं यियासौ, विद्यायां गेहचित्यां क्षितिगृहकरणे कूपभित्त्यां कृषौ च / मन्दं मन्दं प्रवृत्तः स्थिरकृतिरुपयात्यन्त्यमुग्रेऽपि कार्य, किं तर्हि मोक्षसिद्धयै चरणमनुचरन् शस्यते नाल्पमिच्छन् // 23 // यथा जनेषु स्खलना भवित्री, सर्वेषु कार्येषु जनप्रसिद्धा / तथाऽन्तरङ्गारिजयप्रवृत्तौ पञ्चेति भेदाः श्रमणत्व उक्ताः // 24 // अज्ञानसंस्कारविमोहमादैः, कश्चिद्भवेद्रागयुतोऽथ साधुः / शरीरयुक्तेषूपकारकेषु, स संयमी सन् बकुशामिधानः // 25 // कषायदोषाद्विनिमोहनाच्च, भवेत्कषायी वितथादृतिश्च / आचारमार्गे ( ज्ञानादिकेषु ) प्रयतोऽप्यरागे, कुशीलसञ्जः स मुनिर्विगीतः // 26 // तपस्तन्वतः शुद्धसाधुप्रतिष्ठा-पदस्योद्भवेल्लब्धिरुदाररूपा / सैन्यं नयं चक्रधरस्य दाम्येत् , कुप्येत् कदाचिच्च कुतोऽपि हेतोः // 27