________________ जैनगीता। 115 कर्तुं क्षमा स्याद्विकलः क्षमस्तथा, समृद्धिपात्रं न तथर्धियोगात् / एवं मुनिः सोऽनुगतः प्रकोपं, विराधनां विषयुतां प्रयाति // 28 // यथा सुवर्ण मलिनां दृशां गतां, जहाति जाति न तथाऽनगारः / लन्धेः प्रयोक्ता विजहत्स्ववेषं, सोऽयं पुलाकाभिधया प्रगेयः // 29 // हेयता सर्वथा जिनवरैर्गणधरै - गीतपूर्वा समस्ताऽऽश्रवाणां, तत्र हिंसादिकाः नियमनैः परिहृता इन्द्रियाणां निरस्यैतदर्थान् / क्रोधमुख्यान् पुनश्चतुर उद्धरति स प्राप्तसिद्धनिर्ग्रन्थभावो मुनिस्तुर्यभेदे पुनः शुचितरां परिणतिं प्राप्य निर्ग्रन्थनामा भवेत् // 30 // यदा छेदो भवेद्धतोध्रुवं कार्यस्य भाव्यसौ, च्छेदात् ततः कषायस्य क्षयो ज्ञानघ्नकर्मणाम् / एवं निश्शेषभावानां ज्ञाता स्नातकतां गतो, यस्मान्न लिप्यते जातु क्षीणैः कर्मभिराप्तिमान् // 31 // बाह्याद्धनादेः सुविनिर्गता इमे, ग्रन्थात्ततस्ते व्यवहारनीत्या / पञ्चापि नैन्थ्यमनुश्रिता हि विशुद्धिवृद्धेर्बकुशादिका भिदः // 32 // एताः साधकसंश्रितास्तरतमोद्धावाद् मुनित्वे भिदः, सन्त्यन्या अपि पञ्च संयमगताः सामायिकाद्या भिदः / नैर्ग्रन्थ्ये तु पुरोदिता भिद इह स्यात्संयतत्वाश्रया, नोचेद्भेद उपाधिषु प्रगुणितो नाऽसौ विशेष्ये भवेत् / / 33 / / त्यजन् स्वीयं गृहं सर्वावद्यमूलं प्रतिज्ञया, जन्म स्वीयं फलीकुर्यात् तदाऽसौ सात्त्विकः पुमान् / ...