________________ जैनगीता। साध्ये निश्चित उद्यमो नु विदुषां मोक्षे त्वनन्यात्मक- ... श्चारित्रं ह्यद उद्यमो न च फलेज्ज्ञानं विना कस्यचित् / हेतोः साधनबाधनप्रचयगं कर्मागमोद्योतने, साधनबाधकसार्थगं भवति तत्कर्मागमोबाधने, ज्ञातव्यानि ततोऽघसङ्गमहतौ रूपाणि सत्त्वो रैः // 16 // मत्वैवं जिनराड दिदेश भविनः सम्यक्त्वबोधव्रतान्यन्ये तद्विधबोधवृत्तरहिता देष्टुं न चैवं क्षमाः / तत् संसारसमुद्रवाहनिरतोऽनादेरसौ नासदत् , पुण्योद्देशपरं समस्तविदमुन्मोहं जिनं दुर्गतः // 17 // मत्वैवं भववारिधेः परतटं गन्तुं मुनीशो जिनं, दातारं शरणस्य कर्मकटकात् त्रातारमाशिश्रियत् / सेनानीः सुभटान् रणाङ्गणभुवि प्राप्तश्रियः स्यादलं, .. कर्तुं चेत्सुभटा रणोद्यमपरा अत्रोद्यमस्तद्धितः // 18 // मत्वेति प्रवरोधमा मुनिवरास्त्यक्त्वाऽऽश्रवान् पञ्चधा, संसाराम्बुधिवर्धने पटुतरान् दुःखैकदावानलान् / पोतं संवररूपमाप्य मथने शुद्धे तपस्युद्यताः, बालान् वृद्धतपस्विनश्च सततं ये स्युः सदा सेविनः // 19|| शिक्षासु प्रवणो भवेन्न मतिमानाऽऽरम्भतः कास्वपि, किं कर्मक्षपणाय सादरतया प्रारम्भतस्तत् क्षिपेत् / सच्चेष्टोऽपि ततो नरो धृतिपरः प्रोद्युक्तयत्नः सदा, काङ्क्षी चेत् प्रवरस्य तस्य यतते काष्ठा परा यावता // 20 //