________________ जैनगीता। जीवे यातेन वेद्यं करणविधिगतं वेद्यते प्राणधर्ता, भिन्नाऽभिन्नस्वरूपौ तदिह किमुत न जीवकायावपीष्टौ // 7 // समस्तमस्तीह जगत्स्वरूपे, सदन्यभावेन सदेव न स्यात् / नोभात्मरूपे विषयस्य भेदो, यदिन्द्रियैर्गम्यत आत्मगम्यम् // 8 सर्वादिसामूहिकशब्दयोगे, वाच्यं समं नैव तथा ह्यवस्थाः / जीवेषु सर्वेषु गुणाः समस्ता, नाऽजीवगास्ते निजरूपनिष्ठाः // 9 // कर्मावृतत्वात्कृतिरेतदुद्भवे, कार्य ततस्तद् द्वयरूपमेव / स्याद्वादमेवं जगतो विबुध्य, दिदेश नाथो भविकाञ्च्छिवाय // 10 // नकस्य सर्वज्ञदृशेति शिष्यान् , जगाद निश्शेषविदे सुमार्गम् / सर्वे लभन्तां शिवमित्थमुग्रं, जिनेश्वरीयेषु नृषु स्वतत्त्वम् // 11 दिष्टो यद्यपि सर्वभावविदुषा मार्गः कषायोज्झितो, नायं सिध्यति साध्यते क्रममृते तद्वेतवः साधकाः / दिष्टास्तत्क्रमशः समुन्नतिमयाः शिष्येभ्य एतत्पदे, - येनाऽशक्यमिदं समस्तकलनं त्वेतद्धि नो स्याद्रुचिः // 12 // न नित्य आत्मा न च नाश्यनुक्षणं, ततोऽस्य सिद्धत्वमसम्भवन्न / नैरात्म्यवादे न किमु प्रभावो, नश्येन्न पश्येदिति शल्यनाशः // 13 // निरीहतायां न सतोऽपि रागो, वैराग्यनिष्ठो न च दुःखरोषी / आत्मा स्यभावेन युतो न सुख्यपि, स्वरूपरक्तस्य न मोहहेतुः // 14 // स्वरूपमालिन्यमतो न तस्य नैर्मल्यसिद्धथै खलु मार्गदृष्टिः / साध्यत्वमस्यैव तदीयजीवे, तत्रैव सम्यक्त्वमदर्शि विज्ञैः // 15 //