________________ जैनगीता। / सप्तविंशोऽध्यायः / ( श्रमणाधिकारः ) जैनोऽसौ जिनशासनाधिगमतो जन्म स्वकीयं सदा, धन्यं मन्यत आत्ममुक्तिपरमं नास्तीतरच्छासनम् / पूज्यत्वं जिनशासनस्य सकलज्ञोदाहरात् सर्वदा, जीवानां हितदेशनादघटितानुक्तेर्मुमुक्षुग्रहात् // 1 // देवो रागविनाशकृद्यदि न सत्साधोर्दिशेच्छासनं, ज्ञानादित्रयसंयुतं विरमणं पापेभ्य आख्याज्जने / विद्वत्सु प्रतीतं पदं प्रथमतः स्याद्दशकस्तातो, नो चेद्देष्टरि नर्तके च विभिदा नैवाहणा सन्नृणाम् // 2 // आत्मा केवललब्धिमीलनपरः स्याद्रागरोषादिजिद् , यस्माज्ज्ञानदृशोर्न नश्यत इहावृत्यौ कषायान्विते / बन्धौ नैव विगच्छतो भवकरेऽनिष्टे कषायान्वये, तत्कैवल्यधरो जगत्पतिरसौ श्रीवीतरागो जिनः // 3 // महत्त्वं जिनस्यास्ति यत्सोऽखिलार्थान् , समत्वेन वेत्त्येक सामान्यरूपान् / पृथग्रूपधाराँस्तु वेत्ति प्रकृष्टान् , विशेषान्वितान् युग्मरूपः पदार्थः // 4 // वक्रा यथा स्याद् ऋजुतान्विताङ्गलिः, नष्टा स्थिरोत्पादयुता तु सैव / एवं प्रभुः कालभिदोत्थिताना, वेत्तीह पर्यायदशाश्रितानाम् // 5 // द्रव्याभिधानेन समूहमेवं, स्याद्वाद एवास्ति पदार्थरूपः / / बुध्यात्परे नित्यमताः परेशे, स्वस्मिन्ननित्ये न हि कुग्रहाः स्युः // 6 / / भिन्ना जीवा भवेयुर्यदि न हि करणैर्ज्ञानसौख्यादिभाजो, यातस्य प्रेत्य जन्मासुभृत इह नहि प्रेक्ष्यते किं नु देहः /