________________ 110 जैनगीता। मूकानि शेषमतिमुख्यविबोधनानि, स्वेषां न रूपममलं वदितुं क्षमाणि // 63 // ज्ञानं यद्यपि केवलं वरतरं सर्वार्थबोधान्वितं, नित्यानन्दसमन्वितं नियतताभ्राजिष्णु सर्वोत्तमम् / मेरौ काञ्चनसन्ततेः सममिदं लोकोपयोगोज्झितं, तत्स्वर्णं खनिसम्भवाभमनिशं श्रोता श्रुतं संस्तुयात् // 64 // कालोऽयं कलिसञ्जितो न च नृणां ज्ञानानि शेषाणि वै, नैवाकाशविचारिणां गतिरिहासत्त्वं च लब्धिस्पृशाम् / मेधा नैव तथाविधा गणभृतां सद्योगयुक्तात्मनां, तुल्या, शासनमार्हतं विजयते सामर्थ्यमाप्य श्रुतात् // 65 // जैनेन्द्रशासनमिदं सकलान्यतीर्थ्यन्यत्कारकारणसहं जयतीह लोके / सर्वोऽप्ययं लिखितशास्त्रभवोऽनुभावो, ज्ञात्वेदमत्र लिखनेऽलसिता सतां का ? // 66 / / जैनोऽसौ वरभक्तिभाग वितनुते नित्यं महं ज्ञानगं, तत्रापि श्रुतलेखनावनविधौ जैनेन्द्रबिम्बेष्विव (म्बाधिके) / देवा यद्वदवाप्य जन्म झटिति श्रौती सरन्त्यर्चनां, तद्वद्यः प्रतिवासरं वितनुते श्रौती सदा मुदा // 65 // इति पड़विंशोऽध्यायः //