________________ जैनगीता। मार्गास्त्रयः सम्मिलिता विमुक्तेः, सम्यक्त्वबोधव्रतरूपवन्तः / सम्यक्त्वलाभात् प्रभृति क्रमोऽत्र, तत्त्वार्थबोधेन विना न निश्चितिः।।५५॥ ज्ञानं कुलाचारत एव यस्य, तस्यास्ति साध्यत्वमुदारदर्शने / यस्त्वादिधर्मा स नरो लभेत, ज्ञानाद्धि सम्यक्त्वगुणस्य लाभम् // 56 // जिनेश्वरा यद्यपि गर्भकाला-द्विशिष्टसम्यक्त्वधरा ध्रुवं स्युः / ज्ञानत्रयं तत्र तथापि शंसां, जैनैः कृतां प्राप्नुत इन्दुसाम्यात् / / 57 // परित्यजन्ति तीर्थपाः समग्रपापभाजनं, __गृहं धनाङ्गनासुतादिसंयुतं स्वबोधतः / तदैव तुर्यमाप्यते समैर्मनःसुपर्ययं, न जायतेऽद आश्रितेष्वगारमात्मभावतः // 58 / / कृते तु दीपेन गृहे प्रकाशनं, धूलीप्रमुखस्य विशोधनं परम् / न चेद्भवेत् तत् प्रथमं तदा पुनः , सुवर्णरूप्यादिरपोहितं भवेत् / / 59|| तथैव बोधेन विना कृतं तपो, भवेदकामेनं युतां विनिर्जराम् / हेतुः प्रति, प्राप्तिरतो न मुक्ते-रादेयहेयार्थविदा न तत्र // 60 / / निरोधः कृतश्चेन्न नूत्नांहसां त्रा, पुराणाघनाशोद्यम आर्तरूपः / यथार्थपापप्रचयक्षयः स्या-द्विबुध्य तत्तत्करणिं निरुन्ध्यात् // 6|| व्यमो यदि कृतो मनस्विना, संयमे तपसि च श्रुतागमे / निर्वृतिः करतले पुनः स तु, ज्ञानिनोह्यपरथाऽन्धनृत्यवत् // 62 // ज्ञानेषु पञ्चसु पुनः श्रुतमेकमेव, व्याख्याति रूपममलं स्वपराश्रयाङ्कम् /